________________
योगशास्त्रम्
द्वितीय प्रकाशा
॥२६॥
स्वपुत्रस्य पणं च तम् । त्वं प्रमाणीकृतश्चासीत्याख्यायार्थयते स्म सा ॥५३॥ कुर्वाणो रक्षणं भ्रातुरजान्मेपानुदीरय । प्राणैरप्युपकुर्वन्ति महान्तः कि पुनगिरा ॥५४॥ अवोचत बसुर्मातर्मिथ्या वच्मि वचः कथम् । प्राणात्ययेऽपि शंसन्ति नासत्यं सत्यभाषिणः ॥५५|| अन्यदप्यभिधातव्यं नासत्यं पापभीरुणा । गुरुवागन्यथाकारे कूटसाक्ष्ये च का कथा ॥५६॥ बहुकुरु गुरोः सुनु यद्वा सत्यव्रताग्रहम् । तथा सरोषमित्युक्तस्तद्वचोऽमंस्त पार्थिवः ॥५७॥ ततः प्रमुदिता क्षीरकदम्बगृहिणी ययौ । आजग्मतुश्च विद्वांसो तत्र नारदपर्वतौ ॥५८॥ सभायाममिलन् सभ्या माध्यस्थ्यगुणशालिनः । वादिनोः सदसद्वादक्षीरनीरसितच्छदाः ॥५९॥ आकाशस्फटिकशिलावेदिसिंहासनं वसुः । सभापतिरलश्चक्रे नभस्तलमिवोडपः ॥६०॥ ततो निजनिजव्याख्यापक्ष नारदपर्वतौ । कथयामासत् राज्ञे सत्यं ब्रूहीति भाषिणौ ॥६१॥ विप्रवृधेरथोचे स विवादस्त्वयि तिष्ठते । प्रमाणमनयोः साक्षी त्वं रोदस्योरिवार्यमा ॥६२।। घटप्रभृतिदिव्यानि वर्तन्ते हन्त सत्यतः । सत्वाद्वर्षति पर्जन्यः सत्यात्सिद्धय न्ति देवताः ॥६२॥ त्वथैव सत्ये लोकोऽयं स्थाप्यते पृथिवीपते । त्वामिहार्थे चूमहे कि ब्रूहि सत्यव्रतोचितम् ॥६४॥ वचोऽश्रुत्वैव तत्सत्यप्रसिद्धिं स्वां निरस्य च । अजान्मेषान गुरुर्व्याख्यदिति साक्ष्यं वसुर्व्यधात् ॥६५॥ असत्यवचसा तस्य क्रद्धास्तत्रैव देवताः । दलयामासुराकाशस्फटिकासनवेदिकाम् ॥६६॥ बसुर्वसुमतीनाथस्ततो वसुमतीतले । पपात सद्यो नरकापातं प्रस्तावयम्भिव ॥६७॥ कूटसाक्ष्यं प्रदातुस्ते श्वपचस्येव को मुखम् । पश्येदिति वसुं निन्दन्नारदः स्वास्पदं ययौ ॥६८॥ देवताभिरसत्योक्तिकुपिताभिनिपातितः । जगाम घोरं नरकं नरनाथो सुस्तुतः ॥६९॥ यो यः सूनुरुपाविक्षद्राज्ये तस्यापराधिनः। प्रजघ्नुर्देवतास्तं तं यावदष्टौ निपातिताः ॥७॥