________________
पोगशास्त्रम् ॥२०५॥
द्वितीय
प्रकाशः
स्त्रिवार्षिकाणि धान्यानि न हि जायन्त इत्यजाः । व्याख्याता गुरुणाऽस्माकं व्यस्मार्षीः केन हेतुना ॥३८॥ ततः पर्वतकोऽवादीदिदं तातेन नोदितम् । उदिताः किं त्वजा मेषास्तथैवोक्ता निघण्टुषु ॥३९॥ जगाद नारदोऽप्येवं शब्दानामर्थकल्पना । मुख्या गौणी च तत्रेह गौणी गुरुरचीकथत् ॥४०॥ गुरुद्धर्मोपदेष्टैव श्रुतिर्द्धर्मात्मिकैव च । द्वयमप्यन्यथाकुर्वन्मित्र मा पापमर्जय ॥४१॥ साक्षेपं पर्वतोऽजल्पदजान्मेषान् गुरुर्जगौ । गुरूपदेशशब्दार्थोंल्लङ्घनाममजेसि ॥४२॥ मिथ्याभिमानवाचो हि न स्युदण्डभयान्नृणाम् । स्वपक्षस्थापने तेन जिवाच्छेदः पणोऽस्तु नः ॥४३॥ प्रमाणमुभयोरत्र सहाध्यायी वसुनुपः । नारदः प्रतिपेदे तन्न क्षोभः सत्यभाषिणाम्॥४४॥ रहः पर्वतमूचेऽम्बा गृहकर्मरताऽप्यहम् । अजास्त्रिवाषिकं धान्यमित्यश्रौष भवत्पितुः ॥४५॥ जिहाच्छेदं पणेऽकार्यिदात्तदसाम्प्रतम् । अविमृश्य विधातारो भवन्ति विपदां पदम् ॥४६॥ अवदन्पर्वतोऽप्येवं कृतं तावदिदं मया । यथातथाकृतस्याम्ब करणं न हि विद्यते ॥४७॥ साऽथ पर्वतकापायापीडया हृदि शल्यिता । वसुराजमुपेयाय पुत्रार्थे क्रियते न किम् ॥४८॥ दृष्टः क्षीरकदम्बोऽद्य यदम्बं त्वमसीक्षिता । किं करोमि प्रयच्छामि किं चेत्यभिदधे वसुः ॥४९॥ साऽवादीद्दीयतां पुत्रनिक्षा मह्य महीपते । धनधान्यैः किमन्यमें विना पुत्रण पत्रक ॥५०॥ वसुरूचे मम मातः पाल्यः पूज्यश्च पर्वतः । गुरुवद्गुरुपुत्रेऽपि बर्तितव्यमिति श्रुतिः ॥६॥ कस्याद्य पत्रमुत्क्षिप्तं कालेनाकालरोषिणा । को जिघांसुर्धातरं मे ब्रूहि मातः किमातुरा ॥५२॥ अजव्याख्यानवृत्तान्तं १ कोषेषु.
॥२०५॥