________________
योग
शास्त्रम् ॥२०४॥
परिणमेदिह । अभ्राम्भः स्थानभेदेन मुक्तालवणतां व्रजेत् ||२१|| प्रियः पर्वतकः पुत्रः पुत्रादप्यधिको वसुः । नरकं यास्यतस्तस्माद्गृहवासेन किं मम ||२२|| निर्वेदादित्युपाध्यायः प्रव्रज्यामग्रहीत्तदा । तत्पदं पवतोऽध्यास्त व्याख्याक्षणविचक्षणः ||२३|| भृत्वा गुरोः प्रसादेन सर्वशास्त्रविशारदः । नारदः शारदाम्भोदशुद्धधीः स्वां भुवं यौ ॥ २४ ॥ नृपचन्द्रोऽभिचन्द्रोऽपि जग्राह समये व्रतम् । ततश्चासीद्वसू राजा वासुदेवसमः श्रिया ||२५|| सत्यवादीति स प्राप प्रसिद्धि पृथिवीतले । तां प्रसिद्धिमपि श्रातुं सत्यमेव जगाद सः ॥ २६ ॥ अथैकदा मृगयुणा मृगाय मृगयाजुषा । चिक्षिपे विशिखो विन्ध्यनितम्बे सऽन्तराऽस्खलत् ||२७|| इषुस्खलनहेतुं स ज्ञातुं तत्र art ततः । आकाशस्फटिकशिलामज्ञासीत्पाणिना स्पृशन् ||२८|| स दध्याविति मन्येऽस्यां संक्रान्तः परतश्चरन् । भूमिच्छायेव शीतांशौ ददृशे हरिणो मया ||२९|| पाणिस्पर्श विना नेयं सर्वथाऽप्युपलक्ष्यते । अवश्यं तदसौ योग्या वसोर्वसुमतीपतेः ||३०|| रहो व्यज्ञपयद्राज्ञे गत्वा तां मृगयुः शिलाम् । हृष्टो राजाऽपि जयाह ददौ चामै महद्धनम् ||३१|| स तया घटयामास च्छन्नं स्वासनवेदिकाम् । तच्छिल्पिनोऽघातयच्च नात्मीयाः कस्यचिन्नृपाः ||३२|| तस्यां सिंहासनं वेदौ चेदीशस्य निवेशितम् । सत्यप्रभावादाकाशस्थितमित्यबुधज्जनः ||३३|| सत्याद्धि तुष्टाः सान्निध्यमस्य कुर्वन्ति देवताः । एवमूर्जस्विनी तस्य प्रसिद्धिर्व्यानशे दिशः ॥ ३४ ॥ तया प्रसिद्धया राजानो भीतास्तस्य वशं गताः । सत्या वा यदि वा मिथ्या प्रसिद्धिर्जयिनी नृणाम् ||३५|| आगाच्च नारदोऽन्येद्युस्ततश्चैक्षिष्ट पर्वतम् । व्याख्यानयन्तमृग्वेदं शिष्याणां शेमुषीजुषाम् ॥३६॥ अर्जेर्यष्टव्यभित्यस्मिन् मेषैरित्युपदेशकम् । बभाषे नारदो भ्रातर्भ्रान्त्या किमिदमुच्यते ॥३७॥
100%OOOOO
द्वितीय
प्रकाशः
॥२०४॥