________________
योग
शास्त्रम् ॥२०३॥
त्यभिधानतः । अजायत महाबुद्धिः पाण्डोरिव युधिष्ठिरः || ३|| पार्श्वे क्षीरकदम्बस्य गरोः पर्वतकः सुतः । राजपुत्रो वसुच्छात्रो नारदश्चापठंस्त्रयः || ४ || सौधोपरि शयानेषु तेषु पाठश्रमान्निशि । चारणश्रमणौ व्योम्नि यान्तावित्यूचतुर्मिथः ||५|| एषामेकतमः स्वर्ग गमिष्यत्यपरौ पुनः । नरकं यास्यतस्तच्चाश्रषीत्क्षीरकदम्बकः || ६ || तच्छुवा चिन्तयामास खिन्नः क्षीरकदम्बकः । मय्यप्यध्यामके शिष्यौ यास्यतो नरकं हहा ||७|| एभ्यः को यास्यति स्वर्ग नरकं कौ च यास्यतः। जिज्ञासुरित्युपाध्यायस्तांखीन् युगपदाह्यत ||८|| यावपूर्ण समर्थैषामेकैकं पिष्टकुक्कुटम् । स ऊचेऽमी तत्र वध्या यत्र कोऽपि न पश्यति ||९|| पर्वतौ तत्र गत्वा शून्यप्रदेशयोः । आत्मनीनां गतिमिव जघ्नतुः पिष्टकुक्कुटौ ||१०|| महात्मा नारदस्तत्र व्रजित्वा नगराद्बहिः । स्थित्वा च विजने देशे दिशः प्रेक्ष्य व्यतर्कयत् ॥११॥ गुरुपादैरस्तावदादिष्टं वत्स यत्त्वया । वध्योऽयं कुक्कुटस्तत्र यत्र कोऽपि न पश्यति ||१२|| असौ पश्यत्यहं पश्याम्यमी पश्यन्ति खेचराः । लोकपालाश्च पश्यन्ति पश्यन्ति ज्ञानिनोऽपि च ॥ १३॥ नास्त्येव स्थानमपि तद्यत्र कोऽपि न पश्यति । तात्पर्यं तद्गुरूगिरां न वध्यः खलु कुक्कुटः || १४ || गुरुपादा दयावन्तः सदा हिंसापराङ्मुखाः । अस्मत्प्रज्ञां परिज्ञातुमेतन्नियतमादिशन् ||१५|| विमृश्यैवमहत्वैव कुक्कुटं स समाययौ । कुक्कुटाइनने हेतुं गुरोर्व्यज्ञपयच्च तम् ॥ १६ ॥ स्वर्ग यास्यत्यसौ तावदिति निश्चित्य सस्वजे । गुरुणा नारदः खेहात् साधु साध्विति भाषिणा ||१७|| सुपर्वतको पश्चादागत्यैवं शशंसतुः । निहतौ कुक्कुटौ तत्र यत्र कोऽपि न पश्यति ||१८|| अपश्यतं युवामादात्रपश्यन् खेचरादयः । कथं हतौ कुक्कुटौ रे पापावित्यशपद्गुरुः ||१९|| ततः खेदादुपाध्यायो दध्यौ विध्यातपाठधीः । मुधा मेऽध्यापनक्लेशो वसृपवतयोरभूत् ||२०|| गुरूपदेशो हि यथापात्रं
द्वितीय
प्रकाशः
॥२०३॥