________________
योगशाखम् २०२॥
द्वितीय प्रकाशा
कालिकाचार्यों रुरुधे दण्डपुरुषैः ॥१८॥ अथ दत्तात् समुद्विग्नाः सामन्ताः पापकर्मणः । आहाद्य नृपं तस्मै दत्तमर्पयितुं किल ॥१९॥ दत्तोऽपि शङ्कितस्तस्थौ निलीनो निजवेश्मनि । कण्ठीरवरवत्रस्तो निकुञ्ज इव कुञ्जरः ॥२०॥ स विस्मृतदिनो देवादागते सप्तमे दिने । बहिनिर्गन्तुमारक्ष राजमार्गानरक्षयत् ॥२१॥ तत्रैको मालिका प्रातर्विशन् पुप्पकरण्डवान् । चक्रे वेगातुरो विष्ठां भीतः पुष्पैः प्यधत्त च ।।२२।। इहाउनि हनिष्यामि पशुवन्मुनिपांसनम् चिन्तयनिति दत्तोऽपि निर्ययौ सादिभिवृतः॥२३॥ एकेन वल्गताऽश्वेन विष्टोक्षिप्ता खुरेण सा । दत्तस्य प्राविशच्चास्ये नासत्या यमिनां गिरः॥२४॥ शिलास्फालितवत्सद्यः श्लथाङ्गो विमनास्ततः। स सामन्ताननापृच्छय ववले स्वगृहं प्रति ॥२५|| नाऽस्मन्मन्त्रोऽमुना ज्ञात इति प्रकृतिपूरुषैः । गृहमप्रविशन्नेव बद्धदा दः स गौरिव ॥२६॥अथ प्रकाशयंस्तेजो निनं राजा चिरन्तनः । प्रादुरासीत्तदानीं स निशात्यय इवार्यमा ॥२७॥ सोऽहिः करण्डनिर्यात इव दूर ज्वलन् क्रुधा । दत्तं श्वकुम्भ्यां नरककुम्भ्यामिव तदाऽक्षिपत् ॥२८॥ अधस्तात्ताप्यमानायां कुम्भ्यां श्वानोऽन्तरा स्थिताः । दत्तं विदुः परमाधार्मिका इव नारकम् ॥२९॥ निरस्तभूपालभयोपरोधः श्रीकालिकाचार्य इवैवमुच्चैः । सत्यत्रतत्राणकृतप्रतिज्ञो न जातु भाषेत मृषा मनीषी ॥३०॥
॥ इति कालिकाचार्यदत्तकथानकम् ॥ अस्ति चेदिषु विख्याता नाम्ना शुक्तिमती पुरी । शुक्तिमत्याख्यया नद्या नर्मसख्येव शोभिता ॥१॥पृथ्वीमुकुटकल्पायां तस्यां तेजोभिरद्धतः । माणिक्यमिव पृथ्वीशाऽभिचन्द्रो नामतोऽभवत् ।।२।।मनुः सूतृतवाक्तस्य वसुरि
॥२०२॥