________________
पौगशाखम् ॥२०१॥
द्वितीय प्रकाशा
अस्ति भूरमणीमौलिमणिस्तुरमणी पुरी । यथार्थनामा तत्रासीजितशत्रमहीपतिः ॥१॥ रुद्रेति नामधेयेन ब्राह्मणी तत्र विश्रुता । दत्त इत्यभिधानेन तस्याः पुत्रो बभूव च ॥२॥ दत्तो नितान्तदुर्दान्तो घृतमद्यप्रियः सदा । सेवितुं तं महीपालं प्रवृत्तो वर्तनेच्छया ॥३॥ राज्ञा प्रधानीचक्रेऽसौ छायावत्पारिपार्श्वकः। आरोहायोपसर्पन्त्या विषवल्लेरपि दुमः॥४॥ विभेद्य प्रकृतीरेष राजानं निरवासयत् । पापात्मानः कपोताच स्वाश्रयोच्छे. ददायिनः ॥५॥ तस्य राज्ञो दुरात्माऽसौ राज्ये स्वयमुपाविशत् । क्षुद्रः पादान्तदानेऽपि क्रामत्युच्छीर्षकावधि ॥६।। पशुहिंसोत्कटान् यज्ञानज्ञो धर्मधिया व्यधात् । धूमैर्मलिनयन विश्वं स मृरिव पातकैः ॥७॥ विहरन् कालिकार्याख्यथाचार्यस्तस्य मातुलः । तत्राजगाम भगवानङ्गवानिव संयमः ॥८॥ तत्समीपमनापित्सुर्दत्तो मिथ्यात्वमोहितः । अत्यर्थ प्रार्थितो मात्रा मातुलाभ्यर्णमाययौ ॥९॥ मत्तोन्मत्तप्रमत्ताभो दत्तोऽपृच्छत्तमुद्भटम् । आचार्य यदि जानासि यज्ञानां ब्रूहि किं फलम् ॥१०॥ उवाच कालिकाचार्यों धर्म पृच्छसि तच्छृणु । तत्परस्य न कर्तव्यं यद्यद्विप्रियमात्मनः ॥११॥ ननु यज्ञफलं पृच्छामीति दत्तोदिते पुनः । सूरिरूचे न हिंसादि श्रेयसे किन्तु पाप्मने ॥१२॥ पुनस्तदेव साक्षेपं पृष्टो दत्तेन दुर्षिया । ससौष्ठवमुवाचार्यों यज्ञानां नरकः फलम् ॥१३॥ दत्तः क्रुद्धोऽभ्यधादेवमिह कः प्रत्ययो वद । आर्योऽप्यूचे श्वकुम्भ्यां त्वं पक्ष्यसे सप्तमेऽहनि ॥१४॥ दत्तः कोपादस्तभ्ररुणीकृतलोचनः। भूताविष्ट इवोवाच प्रत्ययोऽत्रापि को ननु ॥१५॥ अथोचे कालिकार्योऽपि श्वकुम्भीपचनात्पुरः । तस्मिन्नेवायकस्मात्ते मुखे विष्टा प्रवेक्ष्यति ॥१६॥ रोषाद् दत्तो जगादेदं तव मृत्युः कुतः कदा । न कुतोऽपि स्वकाले द्यां यास्यामीत्यवदन्मुनिः ॥१७।। अमुं निरुन्द्र दुर्बुद्धिमिति दत्तेन रोषतः। आदिष्टः
॥२०१॥