________________
योग शास्त्रम्
द्वितीय प्रकाशा
॥२०॥
श्वमभिदधतः । गर्दा तु त्रिधा, एका सावधव्यापारप्रवर्तनी, यथा क्षेत्रं कृषेत्यादि । द्वितीया अप्रिया, काणं काणमिमि वदतः। तृतीया आक्रोशरूपा, यथा अरे बान्धकिनेय इत्यादि ॥५७।।
अतिपरिहरणीयत्वमसत्यवचनस्य दर्शयन् पुनरप्यैहिकान् दोषानाहअसत्यवचनाद्वैरविषादाप्रत्ययादयः । प्रादुःषन्ति न के दोषाः कुपथ्यायाधयो यथा ॥५०॥ वैरं विरोधः, विषादः पश्चात्तापः अप्रत्ययोऽविश्वासः । आदिग्रहणाद्राजावमानादयो गृह्यन्ते ॥१८॥
आमुष्मिकं मृषावादम्य फलमाह--- निगोदेष्वथ तिर्यक्षु तथा नरकवासिषु । उत्पाद्यन्ते मृषावादप्रसादेन शरीरिणः ॥५९॥ निगोदा अनन्तकायिका जीवास्तेषु तिर्यक्षु गोबलीवर्दन्यायेन शेषतिर्यग्योनिषु नरकवासिषु नैरयिकेषु ॥५९॥ इदानीं मृषावादपरिहारे अन्वयव्यतिरेकाभ्यां कालिकाचार्यवसुराजौ दृष्टान्तावाहब्रूयाद्वियोपरोधाद्वा नासत्य कालिकार्यवत् । यस्तु ब्रूते स नरकं प्रयाति वसुराजवत॥६०
भिया मरणादिभयेन उपरोधादाक्षिण्यादसत्यं हयात् । यस्तु ते मियोपरोधाद्वा इत्यत्रापि संबन्धनीयं दृष्टान्तौ संप्रदायगम्यौ । स चायम्(१) कुलटापुत्र ।
॥२०॥