________________
पोग
शास्त्रम्
॥१९९॥
असत्यतो लघीयस्त्वमसत्याद्वचनीयता । अधोगतिरसत्याच्च तदसत्यं परित्यजेत् ॥ ५६ ॥ लघीयत्त्वं वचनीयता चासत्यस्यैहिकं फलं, अधोगतिरामुष्मिकम् ॥५६॥
अथ भवतु क्लिष्टाशयपूर्वस्यासत्यस्य निषेधः, प्रामादिकस्य तु का वार्चेत्याहअसत्यवचनं प्रोज्ञः प्रमादेनापि नो वदेत् । श्रेयांसि येन भज्यन्ते वात्ययेव महाद्रुमाः ॥ ५७ ॥ आस्तां क्लिष्टाशयपूर्वकमसत्यवचनं, प्रामादिकमप्यज्ञानसंशयादिजनितवचनं न वदेत् येन प्रामादिकेनासत्यवचनेन श्रेयांसि भङ्गमुपयान्ति वात्ययेव महा मा इति दृष्टान्तः । यदाहुर्महर्षयः
अम्मिय कालम्मि पच्चुप्पन्नमणागए । जमठ्ठे तु न जाणेज्जा एवमेच्चं ति णो वए ॥१॥ अमिय कालम्मि पच्चुप्पणमणागए । जत्थ संका भवे तं तु एवमेअं ति णो वए ॥२॥ अमिय कालम्मि पच्चुप्पन्नमगागए । निस्संकिअं भवे जं तु एवमेच्चं तु निद्दिसे ॥३॥ एतच्चासत्यं चतुर्द्धा -भूतनिवो, अभृतोद्भावनं, अर्थान्तरं, गर्दा च । भूतनिहवो यथा - नास्त्यात्मा, नास्ति पुण्यं नास्ति पापं चेत्यादि । अभूतोद्भावनं यथा - सर्वगत आत्मा श्यामाकतन्दुलमात्रो अर्थान्तरं यथा-गाम
अद्धम्मि ।
(१) अतीते च काले प्रत्युत्पन्नमनागते । यमर्थं तु न जानीयात् एवमेतत् इति नो वदेत् ॥१॥ (२) अतीते च काले प्रत्युत्पन्नमनागते । यत्र शङ्का भवेत्तत्तु एवमेतत् इति नो वदेत् ॥२॥ अतीते च काले प्रत्युत्पन्नमनागते । निःशङ्कितं भवेत्तत्तु एवमेततु निर्दिशेत् ॥ ३॥
अद्धम्मि |
द्वितीय
प्रकाशः
॥ १९९॥