________________
योगशास्त्रम ॥१९८॥
कन्यालीकं १ गवालीकं २ भूम्यलीकं ३ न्यासापहरणं ४ कूटसाक्ष्यं च ५ एतानि पञ्च स्थूलासत्यान्यकीर्त्तयन् जिनाः । तत्रा कन्याविषयमलीक कन्यालीकं भिन्नकन्यामभिन्नां विपर्ययं वा वदतो भवति इदं च सर्वस्य कुमारादिद्विपदविषयस्यालीकस्योपलक्षणं १ । गवालीकमल्पक्षीरां बहुक्षीरां विपर्ययं वा वदतः, इदमपि सर्वचतुपदविषयस्यालीकस्योपलक्षणं २ | भूम्यलीकं परसत्कामप्यात्मादिसत्कां विपर्ययं वा वदतः, इदं च शेषपादपाद्यपदद्रव्यविषयालीकस्योपलक्षणं ३ । अथ द्विपदचतुष्पदग्रहणमेव कस्मान्न कृतम् ? उच्यते - कन्याद्यलीकानां लोके अतिगर्हितत्वेन रूढत्वादिति । न्यस्यते रक्षणायान्यस्मै समर्प्यत इति न्यासः सुवर्णादिः तस्यापहरणमपलापस्तद्वचनं स्थूलपृषावादः, इदं चानेनैव विशेषेण पूर्वालीकेभ्यो भेदेनोपातं, कूटसाक्ष्यं प्रमाणीकृतस्य लञ्चामत्सरादिना कूटं वदतः यथाहमत्र साक्षी, अस्य च परकीयपापसमर्थकत्वलक्षणविशेषमाश्रित्य पूर्वेभ्यो भंदेनोपन्यासः एतानि क्लिष्टाशयसमुत्थत्वात् स्थूलासत्यानि ॥ ५४ ॥
एतेषां स्थूलालीकत्वे विशेषणद्वारेण हेतुमुपन्यस्य प्रतिषेधमाह -
सर्वलोकविरुद्धं यद्यद्विश्वसितघातकम् । यद्विपक्षश्च पुण्यस्य न वदेत्तदसूनृतम् ॥ ५५ ॥
सर्वलोके विरुद्धत्वात् कन्यागो भूम्यलीकानि न वदेत् । विश्वसितघातकत्वान्न्यासापलापं न वदेत् । पुण्यस्य धर्मस्य विपक्षरूपोऽधर्मस्तं हि वदन् प्रमाणीकृतो विवादिभिरभ्यर्ध्यते धर्मं ब्रूयान्नाधर्ममिति । इति धर्मविपक्षत्वा कूटसाक्ष्यं न वदेत् ||५५॥
असत्यस्य फलविषशेमुपदर्शयंस्तत्परिहारमुपदिशति-
द्वितीय प्रकाशः
॥१९८॥