________________
योगशास्त्रम्
द्वितीय
॥१९७॥
.
.
यद्यत्कामयते तसस्मै ददाति उपलक्षणमेतदकामितस्यापि स्वर्गापवर्गादेः फलस्य दानात् ।
अत्रान्तरे श्लोकःहेमाद्रिः पर्वतानां हरिरमृतभुजां चक्रवर्ती नाराणां, शीतांशुज्योतिषां स्वस्तरुरवनिरुहां चण्डरोचिग्रहाणाम् । सिन्धुस्तोयाशयानां जिनपतिरसुरामर्त्यमाधिपानां, यदत्तद्वद्वतानामधिपतिपादवीं यात्यहिंसा किमन्यत् ॥१॥५२॥
उक्तमहिंसाव्रतम्, अथ नृतव्रतस्यावसरस्तच नालीकविरतिव्रतमन्तरेणोपपद्यते, न च तत्फलमनुपदर्यालीकाद्विरति कारयितुं शक्यः पर इत्यलीकफलमुपदर्य तद्विरतिमुपदर्शयतिमन्मनत्वं काहलत्व मूकत्वं मुखरोगिताम् । वीक्ष्यासत्यफलं कन्यालीकाद्यसत्यमुत्सृजेत्॥५३॥
मन एव मन्तृ यत्र तन्मन्मनं परस्याप्रतिपादकं वचनं तद्योगात्पुरुषोऽपि मन्मनस्तस्य भावो मन्मनत्वं १ । काहलमव्यक्तवर्ण वचनं तद्योगात्पुरुषोऽपि काहलस्तस्य भावः काहलत्वं २ मूकोऽवाक तस्य भावो मूकत्वं ३। मुखस्य रोगा उपजिहादयस्तेऽस्य सन्ति मुखरोगी तस्य भावो मुखरोगिता ४ । एतत्सर्वमसत्यफलं वीक्ष्य शास्त्र बलेनोपलभ्यासत्यं स्थूलासत्यमुत्सृजेच्छावकः । यदाहमूका जडाश्च विकला वागहीना वागजुप्सिताः । प्रतिगन्धमुखाश्चैव जायन्तेऽनृतभाषिणः ॥१॥५३॥
असत्यं च कन्यालीकादि वक्ष्यमाणम् । तदेवाहकन्यागोभृम्यलीकानि न्यासापहरणं तथा । कूटसाक्ष्यं च पञ्चेति स्थूलोसत्यान्यकीर्तयन्॥५४॥
॥१९॥