________________
योगशास्त्रम्
॥१९१॥
द्वितीय प्रकाशा
एष्वर्थेषु पशून् हिंसन वेदतत्वार्थविद्विजः। आत्मानं च पशुंश्चैव गमयत्युत्तमां गतिम् ॥३६॥ एतानर्थान् साधयितुं पशुन् हिंसन द्विज आत्मानं पशुश्चोत्तमां गतिं स्वर्गापवर्गलक्षणां गमयति प्रापयति वेदतत्त्वार्थविदिति विदुषोऽधिकारित्वमाह ॥३६॥
हिंसाशास्त्रमनूद्य पुनस्तदुपदेशकानाक्षिपतिये चक्रुः क्ररर्माणः शास्त्रं हिंसोपदेशकम् । क्व ते यास्यन्ति नरके नास्तिकेभ्योऽपि नास्तिकाः॥३७॥ ये मन्वादयः-करं निर्धणं कर्म येषां ते क्रूरकर्माणः शाखं स्मृत्यादि हिंसाया उपदेशकं चक्रुः ते हिसाशास्त्रकर्तारः क नरके यास्यन्तीति विस्मयः । ते चास्तिकाभासा अपि नास्तिकेभ्योऽपि नास्तिकाः परमनास्तिका इत्यर्थः ॥३७॥ उक्तं चेत्यनेन संवादश्लोकमुपदर्शयति-- वरं वराकश्चार्वाको योऽसौ प्रकटनास्तिकः । वेदोस्तितापसच्छमच्छन्नं रक्षो न जैमिनिः॥३८
वरमिति मनागिष्टो जैमिन्यपेक्षया चार्वाको लौकायातिकः वराक इति दम्भरहितत्वादनुकम्प्यः । तदेवाहयोऽसौ प्रकटनास्तिकः । जैमिनिस्तु न बरं कुतः वेदोक्तितापसच्छद्म तापसवेषस्तेन छन्नं रक्षो राक्षसः, अयं हि वेदोक्ति मुखे कृत्वा सकलप्राणिवचनात् मायावी राक्षस इव । यच्चोक्तं यज्ञार्थ पशवः स्वष्टा इति तद्वाङ्मात्र निजनिजकर्मनिर्माणमाहात्म्येन नानायोनिषु जन्तवः समुत्पद्यन्त इति व्यलीकः कस्यचित् सृष्टिवादः, यज्ञोऽस्य भूत्यै सर्वस्येति त्वर्थवादः पक्षपातमात्र, वधोऽवध इति तूपहासपात्रं वचः, यज्ञार्थ विनिहतानां चौषध्यादीनां पुनरुच्छू
॥१९॥