________________
योग
द्वितीय प्रकाश
शास्त्रम्
॥१९॥
यज्ञार्थ यज्ञानिमित्तं स्वयंभुवा प्रजापतिना पशवः सृष्टा उत्पादिताः स्वयमेवेत्यर्थवादः । अस्य जगतो विश्वस्य यज्ञो ज्योतिष्टोमादिः भूत्यै भूतिविभवः, तस्मात्तत्र यो वधः स न वधो विज्ञेयः हिंसाजन्यस्य पापस्यानुत्पत्तेः । एवमुच्यते । कथं पुनर्यज्ञे हिंसादोषो नास्ति ? उच्यते-हिसा हिंस्यमानस्य महानपकारः प्राणवियोगेन पुत्रदारधनादिवियोगेन वा सर्वानर्थोत्पत्तददुष्कृतस्य वा नरकादिफलविपाकस्य प्रत्यासत्तः । यज्ञे तु हतानामुपकारो नापकारः नरकादिफलानुत्पत्तेः ॥३३॥ एतदेवाहऔषध्यः पशवो वृक्षास्तिर्यञ्चः पक्षिणस्तथा। यज्ञार्थ निधनं प्राप्ताः प्राप्नुवन्त्यु(च्छि)ति पुनः॥३४॥ __ औषध्यो दर्भादयः पशवश्छागादयः वृक्षा पादयः तिर्यश्चो गवाश्वादयः पक्षिणः कपिञ्जलादयः यज्ञार्थं यज्ञनिमित्त निधनं विनाश प्राप्ताः । यद्यपि केषाश्चित्तत्र निधनं नास्ति तथापि या च यावती च पीडा विद्यत इति सा निधनशब्देन लक्ष्यते । प्राप्नुवन्ति यान्ति उच्छितिमुत्कर्ष देवगन्धर्वयोनित्वमुत्तरकुर्वादिषु दीर्घायुष्कादि च ॥३४॥
यावत्यः काश्चिच्छास्त्रे चोदिता हिंसास्ताः संक्षिप्य दर्शयतिमधुपर्के च यज्ञे च पितृदेवतकर्मणि । अनौव पशवो हिस्या नान्यत्रोत्यब्रवीन्मनुः ॥३५॥
मधुपर्कः क्रियाविशेषः तत्र गोवधो विहितः, यज्ञो ज्योतिष्टोमादिः तत्र पशुवपो विहितः, पितरो दैवतानि यत्र कर्मण्यष्टकादौ तच्च श्राद्धं पितणां दैवतानां च कर्म महायज्ञादि ॥३५॥
॥१९०