________________
योगशास्त्रम्
॥ १८९॥
पठनं तपः कृच्छ्रचान्द्रायणादि एतद्दमादि सर्वमपि न तु किञ्चिदेव, अफलं पुण्यार्जन पापक्षयादिफलरहितं चेद्यदि हिंसां शान्तिहेतुं कुलक्रमायातां वा न परित्यजेन्न परिहरेत् ॥ एवं तावन्मांसलुब्धानां शान्तिकार्थिनां कुलाचारमनुपालयतां च या हिंसा सा प्रतिषिद्धा ||३१||
इदानीं शास्त्रीयां हिंसां प्रतिषेधन शास्त्रत्वेन वाऽऽक्षिपति
विश्वस्तो मुग्धधीर्लेाकः पात्यते नरकावनौ । अहो नृशंसैर्लेाभान्धेर्हि साशास्त्रोपदेशकैः ॥३२॥ हिसाशाखं वक्ष्यमाणं तस्योपदेशका हिंसाशास्त्रोपदेशका मन्वादयस्तैः किंविशिष्टैनृशंसे निर्दयैः । दयावान् हि कथं हिंसाशास्त्रमुपदिशेत् । नृशंसत्वे हेतुमाह । लोभान्धैः मांसलोभान्धैः स्वाभाविकविवेकविवेकिसंसर्ग चक्षुरहितैः । यदाह —
एकं हि चक्षुरमलं सहजो विवेक- स्तद्वद्भिरेव सह संवसतिर्द्वितीयम् ।
एतद्द्वयं भुवि न यस्य स तत्त्वतोऽन्धः - स्तस्यापमार्गचलने खलु कोऽपराधः ? || १ || अहो इति निर्वेदे, यतो विश्वस्तो विश्रब्धः, विश्वस्तत्वे हेतुर्मुग्धधीः । चतुरबुद्धिर्हि कृत्याकृत्यं विवेचयन् न प्रतारकवचस् विश्वसिति । लोकः प्राकृतो जनः पात्यते क्षेप्यते नरकावनौ नरकपृथ्व्याम् ||३२|| हिंसाशास्त्रमेव यदाहुरित्यनेन प्रस्तुत्य निर्दिशति
यज्ञार्थं पशवः सृष्टाः स्वयमेव स्वयंभुवा । यज्ञोऽस्य भूत्यै सर्वस्य तस्माद्यज्ञे वधोऽवधः ॥ ३३ ॥
द्वितीय प्रकाशः
॥१८॥