________________
योगशास्त्रम्
द्वितीय प्रकाशा
॥१९२१
यप्राप्तिः श्रधानभाषितं अकृतसुकृतानां यज्ञवधमात्रेणोच्छ्रितगतिप्राप्त्ययोगात् । अपि च यज्ञहननमात्रेण यदि उच्छ्रितगतिप्राप्तिस्तर्हि मातापित्रादीनामपि यज्ञे वधः किं न क्रियते । यदाहुःनाहं स्वर्गफलोपभोगतृषितो नाभ्यर्थितस्त्वं मया, सन्तुष्टस्तृणभक्षणेन सततं साधो न युक्तं तव । स्वर्गे यान्ति यदि त्वया विनिहता यज्ञे ध्रुवं प्राणिनो, यज्ञं कि न करोषि मातृपितृभिः पुत्रैस्तथा बान्धवैः॥१॥ ___ मधुपर्कादिषु च हिंसा श्रेयसे नान्यत्रेति स्वच्छन्दभाषितं, को हि विशेषो हिंसाया येनैका श्रेयस्करी नान्येति पुण्यात्मानस्तु सर्वाऽपि हिंसा न कर्तव्येत्याहुः । यथा__ सव्वे जीवा वि इच्छंति जीविउ न मरजिउ । तम्हा पाणिवहं घोरं निग्गंथा वज्जयंति णम् ॥१॥ यत्तुक्तं "आत्मानं च पशृंश्चैव गमयत्युत्तमां गतिमिति" तदतिमहासाहसिकादन्यः को वक्तुमर्हति ? । अपि नाम पशोरहित्रस्याकामनिर्जरयोत्तमगतिलाभः संभवेत् , द्विजस्य तु निशातकृपाणिकाप्रहारपूर्व सैनिकस्येव निर्दयस्य हिंसतः कथमुत्तमगतिसंभावनाऽपि स्यात् ? ॥३८॥
एतदेव विशेषाभिधानपूर्वकमुपसंहरबाहदेवोपहारव्योजेन यज्ञव्याजेन येऽथवा । घ्नन्ति जन्तून् गतघृणा घोरांते यान्ति दुर्गतिम्॥३९॥
देवा भैरवचण्डिकादयस्तेभ्यः उपहारो बलिः स एव व्याजं छद्म तेन महानवमीमाधाष्टमीचैत्राष्टमीनमसितका(१) सर्वे जीवा अपि इच्छन्ति जीविन्तुं न मर्तुम् । तस्मात् प्राणिवधं घोरं निर्ग्रन्था वर्जयन्ति ॥१॥
॥१९॥