________________
योगशास्त्रम्
द्वितीय प्रकाशा
॥१८॥
तद्रगोलकद्वयम् ॥४|| एकस्मात्कुण्डलद्वन्द्वं चन्द्रद्वन्द्वमिवामलम् । देदीप्यमानमन्यस्मात्सोमयुग्मं च निःसृतम् ॥५॥ तानि दिव्यानि रत्नानि नन्दा सानन्दमग्रहीत् । अनभ्रवृष्टिवल्लाभो महतां स्यादचिन्तितः ॥६॥ राजा ययाचे कपिलां साधुभ्यः श्रद्धयाऽन्विता । भिक्षां प्रयच्छ निर्भिक्षां त्वां करिष्ये धनोच्चकैः ॥७॥ कपिलोचे विधत्से मां सर्वा स्वर्णमयीं यदि । हिनस्मि वा तथाऽप्येतदकृत्यं न करोम्यहम् ॥८॥ कालसौकरिकोऽप्यूचे राज्ञा सूनां विमुश्च यत् । दास्येऽहमर्थमर्थस्य लोभात्त्वमसि सौनिकः ॥९॥ सूनायां ननु को दोषो यया जीवन्ति मानवाः । तां न जातु त्यजामीति कालसौकरिकोऽवदत् ॥१०॥ सूनाव्यापारमेषोऽत्र करिष्यति कथं न्विति । नृपः क्षिप्त्वाऽन्धकूपे तमहोरात्रमधारयत् ॥११॥ अथ विज्ञपयामास गत्वा भगवते नृपः। सोऽत्याजि सौनिकः सूनामहोरात्रमिदं विभो ॥१२॥ सर्वज्ञोऽभिदधे राजन्नन्धकूपेऽपि सोऽवधीत् । शतानि पञ्च महिषान् स्वयं निर्माय मृन्मयान् ॥१३॥ तद्गत्वा श्रेणिकोऽपश्यत् स्वयमुद्विविजे ततः। धिगहो मे पुरा कर्म नान्यथा भगवदगिरः ॥१४॥ पञ्च पश्च शतान्यस्य महिषाभिघ्नतोऽन्वहम् । कालसौकरिकस्योच्चैः पापराशिरवर्द्धत ॥१५॥ इहापि रोगास्तस्यासन्दारुणैरतिदारुणाः। पर्यन्तनरकप्रारुपयुत्कलितैरघेः ॥१६॥ हा तातमहा मातरिति व्याधिवाधाकदर्थितः । वध्यमानः शूकरवत्कालसौकरिकोऽरटत् ॥१७॥ सौऽङ्गनातूलिकापुष्पवीणाकणितमार्जिताः । दृष्टित्वमासिकाकर्णजिहाशूलान्यमन्यत ॥१८॥ ततस्तस्य सुतस्तादृक् स्वरूपं सुलसोऽखिलम् । जगाद जगदाप्तायाभयायाभयदायिने ॥१९॥ उचेऽभयस्त्वत्पिता यच्चक्रे तस्येदृशं फलम् । सत्यमत्युग्रपापानां
(१) मार्जिता-मुगन्धिद्रव्यैः संस्कृतं दधि.
॥१८६॥