________________
योगशास्त्रम्
द्वितीय प्रकाशः
फलमत्रैव लभ्यते ॥२०॥ तथाऽप्यस्य कुरु प्रीत्यै विपरीतेन्द्रियार्थताम् अमेध्यगन्धविध्वंसे भवेन जलमौषधम् ॥२१॥ अथैत्य सुलसस्तं तु कटुतिक्तान्यभोजयत् । अपाययदपोऽत्युष्णास्तप्तत्रपुसहोदराः ॥२२॥ भूयिष्ठविष्ठया मुष्ठु सर्वाङ्गीणं व्यलेपयत् । उर्ध्वकण्टकमय्यां च शय्यायां पर्यसूषुपत् ॥२३॥ श्रावयामास १चक्रीवत्क्रमेलकरवान् कटून् । रक्षोवेतालककालघोररूपाण्यदर्शयत् ॥२४॥ तैः प्रीतः सोऽब्रवीत्पुत्रं चिरात्स्वाद्वद्य भोजनम् शीतं वारि मृदुः शय्या सुगन्धि च विलेपनम् ॥२५॥ शब्दः श्रुतिसुधाऽमूनि रूपाण्येकं सुखं दृशोः। भक्तेनापि त्वयाऽस्मात् किं वञ्चितोऽस्मि चिरं सुखात् ॥२६॥ तच्छुत्वा सुलसो दध्याविदमत्रैव जन्मनि । अहो पापफलं घोरं नरके कि भविष्यति ॥२७॥ सुलसे चिन्तयत्येवं स मृत्वा प्राप दारुणम् । सप्तमे नरके स्थानमप्रतिष्ठानसंज्ञितम् ॥२८॥ कृतोर्ध्वदेहिकोऽभाणि सुलसः स्वजनैरिति । पितुः श्रयपदं स्याम सनाथा हि त्वया यथा ॥२९॥ सुलसस्तानुवाचेदं करिष्ये कर्म न ह्यदः । किचिल्ले में फलं पित्राऽप्यत्रैवामुष्य कर्मणः ॥३०॥ यथा मम प्रियाः प्राणास्तथाऽन्यप्राणिनामपि । स्वप्राणिताय धिगहो परप्राणप्रमारणम् ॥३१॥ हिंसाजीविकया जीवेत् कः प्रेक्ष्य फलमीदृशम् । मरणेकफलं ज्ञात्वा किंपाकफलमत्ति कः॥३२॥ अथ ते स्वजनाः प्रोचुः पापं प्राणिवधेऽत्र यत् । तद्विभज्य ग्रहीष्यामो हिरण्यमिव गोत्रिणः ॥३३॥ त्वमेकं महिषं इन्या हनिष्यामोऽपरान् वयम् । अत्यल्पमेव ते पापं भविष्यति ततो ननु ॥३४॥ आदाय सुलसः पित्र्यं कुठारं पाणिना ततः । तेनाजघ्ने निजां जवां मूर्छितो निपपात च ॥३५॥ लब्धसंज्ञस्ततोऽवादीत् साक्रन्दः करुणस्वरम् । हा कुठार
(१) चक्रीवत्-रासभः क्रमेलकश्च-उष्ट्रः तयोः शब्दान्,
॥१८७॥