________________
योगशास्त्रम्
द्वितीय प्रकाशन
॥१८५॥
नरकं व्रजेत् । कालांकरिकस्तेन प्रोचे मा जीव मा मृथाः ॥८७॥ तच्छुत्वा श्रेणिको नत्वा भगवन्तं व्यजिज्ञपत् । त्वयि नाथे जगन्नाथ कथं मे नरके गतिः ।।८८|| बभाषे भगवानेवं पुरा त्वमसि भूपते । बद्धायुनरके तेन तत्रावश्यं गमिष्यसि ॥८६॥ शुभानामशुभानां वा फलं प्रारबद्धकर्मणाम् । भोक्तव्यं तव (तद्व)यमपि नान्यथा कतमीश्महे ॥९॥ आद्यो भाविजिनचतुर्विंशतौ त्वं भविष्यसि । पद्मनाभाभिधो राजन् खेदं मा स्म कृयास्ततः ॥ ९१ ॥ श्रेणिकोऽथावदनाथ किमुपायोऽस्ति कोऽपि सः । नरकायेन रक्ष्येऽहमन्धकूपादिवान्धलः ॥ ९२ ॥ भगवान् व्याजहारेदं साधुभ्यो भक्तिपूर्वकम् । ब्राह्माण्या चेत्कपिलया भिक्षां दापयसे मुदा ॥९३॥ कालसौकरिकासूनां विमोचयसि वा यदि । तदा ते नरकान्मोक्षो राजन् जायेत नान्यथा ॥९४॥ सम्यगित्युपदेशं स हृदि हारमिवोद्वहन् । प्रणम्य श्रीमहावीरं चचाल स्वाश्रयं प्रति ॥९५॥ अत्रान्तरे परीक्षार्थ दर्दुराकेन भूपतेः। अकार्य विदधत्साधुः कैवर्त इव दर्शितः ॥९६॥ तं दृष्ट्वा प्रवचनस्य मालिन्यं मा भवत्विति । निवार्याकार्यतः साम्ना स्वगृहं प्रत्यगान्नृपः ॥६७॥ स देवो दर्शयामास साध्वीमुदरिणी पुनः। नृपः शासनभक्तस्तां जुगोप निजवेश्मनि ॥९॥ प्रत्यक्षीभूय देवोऽपि तमृचे साधु साधु भोः । सम्यक्त्वाच्चाल्यसे नैव पर्वतः स्वपदादिव ॥९९॥ नृनाथ यादृशं शक्रः सदसि त्वामचीकथत् । दृष्टस्तादृश एवासि मिथ्यावाचो न तादृशाः ॥१०॥ दिवानिर्मितनक्षत्रश्रेणिक श्रेणिकाय सः । व्यश्राणयत्ततो हारं गोलकद्वितयं तथा ॥१॥ योऽमुं सन्धास्यते हारं त्रुटितं स मरिष्यति । इत्युदीर्य तिरोऽधत्त स्वप्नदृष्ट इवामरः ॥२॥ दिव्यं देव्यै ददौ हारं चेल्लणायै मनोहरम् । गोलकद्वितयं ततु नन्दायै नृपतिर्मुदा ॥३॥ दानस्यास्यास्मि योग्येति सेयं नन्दा मनस्विनी । आस्फाल्य स्फोटयामास स्तम्भे