________________
योग
शास्त्रम्
॥९८४॥
द्वारदुर्गाणामग्रतो बलिम् । जन्मादृष्टमिवाभुक्त यथेष्टं कष्टितः क्षुधा ॥७०॥ आकण्ठं परिभुक्तान्नदोषाद्गीष्मोष्मणा च सः । उत्पन्नया तृषाऽकारि मरुपान्थ इवाकुलः ॥ ७१ ॥ तत्त द्वाःस्थभिया स्थानं त्यक्त्वा नागात्प्रपा दिषु । असौ जलचरान् जीवान् धन्यान्मेने तृषातुरः ||७२|| आरटन् वारि वारीति स तृषार्त्तो व्यपद्यत । sta नगरद्वारवाप्यामजनि दर्दुरः ||७३ || विहरन्तो वयं भूयोऽप्यागमा मेह पत्तने । लोकोऽस्मद्वन्दनार्थ च प्रचचाल ससम्भ्रमः ||७४ || अस्मदागमनोदन्तं श्रुत्वाऽम्भोहारिणीमुखात् । स भेकोऽचिन्तयदिदं काप्येवं श्रुतपूर्व्यहम् ||७५ || ऊहापोहं ततस्तस्य कुर्वाणस्य मुहुर्मुहुः । स्वमस्मरण वज्जातिस्मरणं तत्क्षणादभूत् ॥७६॥ स दध्यौ दर्दुरचैव द्वारे संस्थाप्य मां पुरा । द्वाःस्थो यं बन्दितुमगात्स आगाद्भगवानिह ॥७७॥ यथैते यान्ति तं द्रष्टुं लोका यास्याम्यहं तथा । सर्वसाधारणी गङ्गा न हि कस्यापि पैतृकी ॥७८॥ ततोऽस्मद्वन्दनाहेतोरुत्प्लु त्योत्प्लुत्य सोऽध्वनि । आयांस्तेऽश्वखुरक्षुण्णो भेकः पञ्चत्वमाप्तवान् ॥ ७९ ॥ दर्दुराकोऽयमुत्पेदे देवोऽस्मद्भक्तिभावितः । भावना हि फलत्येव विनाऽनुष्ठानमप्यहो ||८०|| इन्द्रः सदस्युवाचेदमुपश्रेणिकमाईताः । अश्रद्दधानस्तदसौ त (त्व) परीक्षार्थमागतः ॥ ८१ ॥ गोशीर्षचन्दनेनायमानच्चे चरणौ मम । त्वद्दृष्टिमोहनायान्यत्सर्वं व्यधित वैक्रियम् ॥८२॥ अथोचे श्रेणिकः स्वामिनमङ्गल्यं प्रभोः क्षुते । एषोऽन्येषां तु मङ्गल्यामङ्गल्यानि जगाद किम् ॥८३॥ अथाचचक्षे भगवान् किं भवेऽद्यापि तिष्ठसि । शीघ्रं मोक्षं प्रयाहीति मां म्रियस्वेत्युवाच सः ॥ ८४ ॥ स त्वां जगाद जीवेति जीवतस्ते यतः सुखम् । नरके नरशार्दुल मृतस्य हि गतिस्तव ॥ ८५ ॥ जीवन् धर्म विधते स्याद्विमानेऽनुत्तरे मृतः । जीव म्रियस्व वेत्येवं तेनाभयमभाषत ॥ ८६ ॥ जीवन् पापपरो मृत्वा सप्तमं
द्वितीय प्रकाशः
१८४॥