________________
योगशास्त्रम् ॥१८३॥
द्वितीय प्रकाशा
जुगुप्सन्ते यथैते मां जुगुपयाः स्युरमी अपि । यथा तथा करिष्यामीत्यालोच्यावोचदात्मजान् ॥५३॥ उद्विग्नो जीवितस्याहं कुलाचारस्त्वसौ सुताः । मुमूर्षुभिः कुटुम्बस्य देयो मन्त्रोक्षितः पशुः ॥५४॥ पशुरानीयतामेक इत्याकpनुमोदिनः। आनिन्यिरे तेऽय पशुं पशुवन्मन्दबुद्धयः ॥५५॥ उद्वयॊद्वय॑ च स्वाङ्ग मन्नेन व्याधिवर्तिकाः । तेनाचारि पशुस्तावद्यावत् कुष्ठी बभूव सः ॥५६॥ ददौ विप्रः स्वपुत्रेभ्यस्तं हत्वा पशुमन्यदा । तदाशयमजानन्तो मुग्धा बुभुजिरे च ते ॥५७। तीर्थे स्वार्थाय यास्यामीत्यापृच्छय तनयान् द्विजः । ययावूर्ध्वमुखोऽरण्यं शरण्यमिव चिन्तयन् ॥५८॥ अत्यन्तवृषितः सोऽटनटव्यां पयसे चिरम् । अपश्यत्सुहृदमिव देशे नानाद्रुमे हृदम् ॥५९॥ नीरं तीरतरुखस्तपत्रपुष्पफलं द्विजः । ग्रीष्ममध्यन्दिनार्को शुकथितं काथवत्पपौ ॥६०॥ सोऽपायथा यथा वारि भूयोभूयस्तु पातुरः । तथा तथा विरेकोऽस्य बभूव कृमिभिः सह ॥६१॥ स नीरुगासीत्कतिभिरप्यहोभिईदाम्भसा । मनोज्ञसवयवो वसन्तेनेव पादपः ॥२॥ आरोग्यइष्टो ववले विप्रः क्षिप्रं स्ववेश्मने । पुंसां वपुर्विशेषोत्थश्रृङ्गारो जन्मभूमिषु ॥६३॥ स पुर्य्या प्रविशन् पौरैर्ददृशे जातविस्मयैः । देदीप्यमानो निर्मुको निर्मोक इव पन्नगः ॥६४॥ पारैः पृष्टः पुनर्जात इवोल्लाघः कथं न्वसि । देवताराधनादस्मीत्याचचक्षे स तु द्विजः॥६५॥ स गत्वा स्वगृहेऽपश्यत्स्वपुत्रान् कुष्ठिनो मुदा । मयाऽवज्ञाफलं साधु दत्तमित्यवदच्च तान् ॥६६॥ मुतास्तमेवरचूश्च भवता तात निघृणम् । विश्वस्तेषु किमस्मासु द्विषेवेदमनु ष्ठितम् ॥६७॥ लोकैराक्रुश्यमानोऽसौ राजनागत्य ते पुरम् । आश्रयज्जीविकाद्वारं द्वारपालं निराश्रयः ॥६८॥ तदाऽत्र वयमायाता द्वास्थोऽस्मदर्मदेशनाम् । श्रोतुं प्रचलितोऽमुश्चत्तं विप्रं निजकर्मणि ॥६९॥ द्वारोपविष्टः स
॥१८॥