________________
योगशास्त्रम् ॥१८२॥
द्वितीय प्रकाशा
स्तथाग्रासनभोजनम् । दीनारो दक्षिणायां च याच्य इत्यन्वशात्पतिम् ॥३७॥ ययाचे तत्तथा विप्रो राजाऽदात्तद्वदनिदम् । करकोऽन्धिमपि प्राप्य गृह्वात्यात्मोचितं पयः ॥३८॥ प्रत्यहं तत्तथा लेभे प्राप्य सम्भावनां च सः। पुंसां राजप्रसादो हि वितनोति महाघताम् ॥३९॥ राजमान्योऽयमित्येष नित्यं लोकैन्यमन्त्र्यत । यस्य प्रसनो नृपतिस्तस्य कः म्यान सेवकः ॥४०॥ अग्रे भुक्तं चालयित्वा बुभुजेऽऽनेकशोऽप्यसौ। प्रत्यहं दक्षिणालोभाद्धिग्धिग्लोभो द्विजन्मनाम् ॥४१॥ उपाचीयत विप्रोऽसौ विविधैर्दक्षिणाधनैः । प्रासरत्पुत्रपौत्रैश्च पादैरिव वद्रुमः ॥४२॥ स तु नित्यमजीर्णानवमनावंगै रसैः । आमेरभूषितत्वगश्वत्थ इव लाक्षया ॥४३॥ कुष्ठी क्रमेण सञ्जज्ञे शीर्णघ्राणांहिपाणिकः। तथैवाभुक्त राजाने सोऽतृप्तो हव्यवाडिव ॥४४॥ एकदा मन्त्रिभिभूपो विज्ञप्तो देव कुष्ठचसौ । सञ्चरिष्णुः कृष्ठरोगो नास्य योग्यमिहाशनम् ॥४५॥ सन्त्यस्य नीरुजः पुत्रास्तेभ्यः कोऽप्यत्र भोज्यताम् । व्यङ्गितप्रतिमायां हि स्थाप्यते प्रतिमान्तरम् ॥४६॥ एवमस्त्विति राझोक्तेऽमात्यैविप्रस्तथोदितः। स्वस्थानेऽस्थापयत्पुत्रं गृहे तस्थौ स्वयं पुनः ॥४७॥ मधुमण्डकपदक्षुद्रमक्षिकाजालमालितः। पुत्रैहादपि बहिः कुटीरेऽक्षेपि स द्विजः ॥४८॥ बहिः स्थितस्य तस्याज्ञां पुत्रा अपि न चक्रिरे । दारुपात्रे ददुः किन्तु शुनकस्येव भोजनम् ॥४९॥ जुगुप्समाना वध्वोऽपि तं भोजयितुमाययुः । तिष्ठिवुर्वलितग्रीवं मोटनोत्पुटनासिकाः ॥५०॥ अथ सोऽचिन्तयद्विप्रः श्रीमन्तोऽमी मया कृताः। एभिर्मुक्तोऽस्म्यनादृत्य तीर्णाम्भोभिस्तरण्डवत् ॥५१॥ तोषयन्ति न वाचाऽपि रोषयन्त्येव माममी । कुष्ठो रुष्टो न सन्तुष्टो भव्य इत्यनुलापिनः ॥५२॥
(२) घटः (२) वान्त्वा.
॥१८२॥