________________
योगपात्रम्
द्वितीय प्रकाश
॥१८॥
॥२०॥ सोऽप्यूचे तां प्रिये नास्ति मम कुत्रापि कौशलम् । येन किञ्चिल्लमे कापि कलायाद्या यदीश्वराः ॥२१॥ उवाच सा च तं भट्ट गच्छ सेवस्व पार्थिवम् । पृथिव्यां पार्थिवादन्यो न कश्चित्कल्पपादपः ॥२२॥ तथेति प्रतिपद्यासौ नृपं पुष्पफलादिना । प्रवृत्तः सेवितुं विप्रो रत्नेच्छुरिव सागरम् ॥२३।। कदाचिदथ कौशाम्बी चम्पेशेनामितैलैः। घनतुनेव मेघेद्याररुध्यत समन्ततः॥२४॥ सानीकोऽपि शतानीको मध्येकौशाम्बि तस्थिवान् प्रतीक्षमाणः समयमन्तविलमिवोरगः ॥२५॥ चम्पाधिपोऽपि कालेन बहुना सनसैनिकः । प्रावृषि स्वाश्रयं यातुं प्रवृत्तो राजहंसवत् ॥२६॥ तदा पुष्पार्थमुद्याने गतः सेडुक ऐक्षत । तं क्षीणसैन्यं प्रत्यूषे निष्प्रभोडुमिवोडपम ॥२७॥ तूर्णमेत्य शतानीकं व्यजिज्ञपदसाविदम् । याति क्षीणबलस्तेऽरिभग्नदंष्ट्र इवोरगः ॥२८॥ यद्यद्योत्तिष्ठसे तस्मै तदा प्रायः सुखेन सः। बलीयानपि खिन्नः सनखिम्भेनाभिभूयते ॥२९॥ तद्वचः साधु मन्यानो राजा सर्वाभिसारतः। निःससार २शरासारसारनासीरदारुणः ॥३०॥ ततः पश्चादपश्यन्तो नेशुश्चम्पेशसैनिकाः । अचिन्तिततडित्पाते को वीक्षितुमपि क्षमः ॥३१॥ चम्पाधिपतिरेकाङ्गः कान्दिशीकः पलायितः। तस्य हस्त्यश्वकोशादि कौशाम्बीपतिरग्रहीत् ॥३२॥ हृष्टः प्रविष्टः कौशाम्बी शतानीको महामनाः । उवाच सेडुकं विप्रं ब्रूहि तुभ्यं ददामि किम् ॥३३॥ विप्रस्तमृचे याचिष्ये पृष्ट्वा निजकुटुम्बिनीम् । पर्यालोचपदं नान्यो गृहिणां गृहिणीं विना ॥३४॥ भट्टः प्रहृष्टो भट्टिन्यै तदशेष शशंस सः। चेतसा चिन्तयामास सा चैव बुद्धिशालिनी ॥३५।। यधमुना ग्राहयिष्ये नृपाद्ग्रामादिकं तदा । करिष्यत्यपरान्दारान्मदाय विभवः खलु ॥३६॥ दिनं प्रत्येक ३आलोच
(१) खिन्नसैनिकः २ बाणवृष्टया सारभूतं नासीरम्-अग्रसैन्यं तेन दारुणः ३ दर्शनम् ।
॥१८॥