________________
योग शास्त्रम्
द्वितीय प्रकाशा
॥१८॥
सर्वाधिकारित्वं गुणा हि गरिमास्पदम् ॥४ा अन्यदा श्रीमहावीरो विहरन् परमेश्वरः । जगत्पूज्यः पुरे तस्मिनागत्य समवासरत् ॥५॥ श्रुत्वा स्वामिनमायातं जङ्गमं कल्पपादपम् । कृतार्थमानी तत्रागान्मुदितः श्रेणिको नृपः ॥६॥ यथास्थानं निषण्णेषु देवादिषु जगद्गुरुः। प्रारेमे दुरितध्वंसदेशनीं धर्मदेशनाम् ॥७॥ तदा कुष्ठगलत्कायः कश्चिदेत्य प्रगम्य च । निषसादोपतीर्थेशमलकर इव कुट्टिमे ॥८॥ ततो भगवतः पादौ निजपूयरसेन सः । निःशङ्कश्चन्दनेनेव चर्चयामास भूयसा ॥९॥ तद्वीक्ष्य श्रेणिकः कूद्धो दध्यौ वध्योऽयमुत्थितः। पापीयान् यजगद्भर्त्तव्येवमाशातनापरः ॥१०॥ अत्रान्तरे जिनेन्द्रेण क्षुते प्रोवाच कुष्ठिकः । म्रियस्वेत्यथ जीवेति श्रेणिकेन क्षुते सति ॥१॥ क्षुतेऽभयकुमारेण जीव वा त्वं म्रियस्व वा । कालसौकरिकेणापि क्षुते मा जीव मा मृथाः ॥१२॥ जिनं प्रति म्रियस्वेति वचसा रुषितो नृपः । इतः स्थानादुत्थितोऽसौ ग्राह्य इत्यादिशद्भटान् ॥१३॥ देशानान्ते महावीरं नत्वा कुष्ठी समुत्थितः । रुरुधे श्रेणिकभटैः किरातैरिव शूकरः ॥१४॥ स तेषां पश्यतामेव दिव्यरूपधरः क्षणात् । उत्पपाताम्बरे कुर्वनकबिम्बविडम्बनाम् ॥१५॥ पत्तिभिः कथिते राज्ञा क एष इति विस्मयात् । विज्ञप्तो भगवानस्मै देवोऽसावित्यचीकथत् ॥१६॥ पुनर्विज्ञपयामास सर्वज्ञमिति भुपतिः । देवः कथमभूदेष कुष्ठी वा केन हेतुना ॥१७॥ अथोचे भगवानेवमस्ति वत्सेषु विश्रुता । कौशाम्बी नाम पूस्तस्यां शतानीकोऽभवन्नृपः ॥१८॥ तस्यां नगामेकोऽभून्नामतः सेडुको द्विजः । सीमा सदा दरिद्राणां मूर्खाणामवधिः परः ॥१९॥ गर्मिण्याऽभाणि सोऽन्येचुर्लाह्मण्या सूतिकर्मणे । भट्टानय घृतं मा समान बन्यथा व्यथा (१) मत्तःश्वा.
॥१८॥