________________
द्वितीय प्रकाशः
योगशास्त्रम् ॥१२॥
रौद्रध्यानमन्तरेणाप्यविवेकाल्लोभावा या शान्तिनिमित्तं कुलक्रमाद्वा हिंसा न केवलं पापहेतुःप्रत्युत विघ्नशान्तिनिमित्तं क्रियमाणा समरादित्यकथोक्तस्य यशोधरजीवस्य सुरेन्द्रदत्तस्येव पिष्टमयकुक्कुटवधरूपा विघ्नाय जायते कल्पेत अस्मत्कुलाचारोऽयमिति बुद्धयाऽपि कृता हिंसा कुलमेव विनाशयति ॥२९॥
इदानी कुलक्रमायातामपि हिसां परिहरन् पुमान् प्रशस्य एवेत्याह । अपि वंशक्रमायाता यस्तु हिंसां परित्यजेत् । सश्रेष्ठः सुलस इव कोलसौकरिकात्मजः॥३०॥
वंशः कुलं कुलक्रमायातामपि हिंसां यः परिहरेत् सः श्रेष्टः प्रशस्यतमः सुलस इव, तस्य विशेषणं काल सौकरिकात्मजः कालसौकरिको नाम सौनिकस्तस्यात्मज पुत्रः । यदाहअवि इच्छन्ति य मरणं न य परपीडं कुणन्ति मणसा वि । जे सुविइअसुगइपहा सोयरिअसुओ जहा सुलसो ॥
मुलसकथानकं सम्प्रदायगम्यम् । स चाय
महर्दि मगधेष्वस्ति पुरं राजगृहाभिधम् । तत्र श्रीवीरपादाब्जभृङ्गोभृच्छ्रेणिको नृपः॥१॥ तस्य प्रियतमे नन्दाचिल्लणे शीलभूषणे । अभूतां देवकीरोहिण्याविवानकदुन्दुभेः ॥२॥ नन्दायां नन्दनो विश्वकुमुदानन्दचन्द्रमाः । नाम्नाऽभयकुमारोऽभूदुभयान्वयभूषणः ॥३॥ राजा तस्य परिज्ञाय प्रकृष्टं बुद्धिकौशलम् । ददौ (१) अपि इच्छन्ति च मरणं न च परपीडां कुर्वन्ति मनसापि । ये सुविदितसुगतिपथाः सौकरिकसुतो यथा मुलसः (२) वसुवेवस्य कृष्णपितुः ।
ulgeli