________________
योग
शास्त्रम्
॥१७८॥
यथाssसीद्ब्रह्मदत्तस्य तत्स्थालस्पर्शने रतिः || ५०० ॥ न कदाचन स स्थालमपासारयदग्रतः । दुर्म्मदी मदिरापात्रमित्र दुर्गतिकारणम् ||१|| विप्रनेत्रधियाऽमृद्नात् श्लोष्मातकफलानि सः । फलाभिमुखपापद्रोः सज्जयन्निव दोहदम् ||२|| तस्यानिवर्त्तको रौद्राध्यवसायोऽत्यवर्द्धत । अशुभं वा शुभं वाऽपि सर्वे हि महतां महत् ॥ ३॥ तस्यैवं वसुधेशस्य रौद्रध्यानानुबन्धिनः । पापपङ्कबराहस्य ययुर्वर्षाणि षोडश || ४ ||
यातेषु षोडशयुतेषु समाशतेषु सप्तस्वसौ क्षितिपतिः परिपूरितायुः । हिंसाऽनुबन्धिपरिणामफलानुरूपां तां सप्तमीं नरकलोकभुवं जगाम ||५|| २७ ॥ इति ब्रह्मदत्तचक्रवर्त्तिकथानकम् || पुनरपि हिंसकान्निन्दति ।
कुणिर्वरं वरं पङ्गुरशरीरी वरं पुमान् । अपि सम्पूर्णसर्वाङ्गो न तु हिंसापरायणः॥२८॥ कुणिर्विकलपाणिः वरमिति मनागिष्टे मन्तमव्ययं, पङ्गुः पादविकलः, कुत्सितं शरीरमशरीरं नमः कुत्सार्थत्वात् तद्विद्यते यस्य सोऽशरीरी कुष्ठी विकलाङ्गः, कुणिपङ्गुकुष्ठिनस्ते हि विकलाङ्गत्वादेव हिंसामकुर्वन्तो मनाक् श्रेष्टाः, सम्पूर्णसर्वाङ्गोऽपि कृतपरिकरबन्धं हिसापरायणः पुमान्न तु श्रेष्ठः ||२८|
ननु रौद्रध्यानपरायणस्य या तु शान्तिकनिमित्तं प्रायश्चित्तभूता हिंसा या वा कुलक्रमायाता मत्स्यबन्धानामिव सा रौद्रध्यानरहितत्वान्न दोषायेत्याह
हिंसा विघ्नाय जायेत विघ्नशान्त्यै कृताऽपि हि । कुलाचार धियाऽप्येषा कृता कुलविनाशनी ॥२९
द्वितीय
प्रकाशः
॥१७८॥