________________
योगशास्त्रम्
॥ १७७॥
विप्रः प्रववृते रते ||८३|| ततो विरामे यामिन्या द्विजो गृहजनश्च सः । हिया दर्शयितुं स्वास्यमन्योऽन्यमपि नाशकत् ||८४|| क्रूरेणानेन राज्ञाऽस्मि सकुटुम्बो बिडम्बितः । चिन्तयन्नित्यमर्षेण नगरान्निरगाद्विजः ॥८५॥ दूरादश्वत्थपत्राणि काणयन् शर्कराकणैः । तेन कश्चिदजापालो ददृशे भ्रमता बहिः || ८६|| मद्वैरसाधनायालमाविति विमृश्य सः । तं मुल्येनेव सत्कारेणादायैवमवोचत ||८७ ॥ राजमार्गे गजारूढो यः श्वेतच्छत्रचामरः याति कृष्ये दृशौ तस्य त्वया प्रक्षिप्य गोलिके ॥८८॥ विप्रवाचमजापालः प्रतिपेदे तथैव ताम् । पशुवत्पशुपाला हि न विमृश्यविधायिनः ॥ ८९ ॥ | सोऽथ कुडचान्तरे स्थित्वा समं प्रक्षिप्य गोलिके । आस्फोटयद् दृशौ राज्ञो नाज्ञा लङ्घया विधेः खलु ॥९०॥ सोऽङ्गरक्षैरजापालः प्राप्तः श्येनैरिव द्विकः । हन्यमानस्तमेवाख्यद्विप्रं विप्रियकारकम् ||११|| तच्छ्रुत्वा पर्थिवोऽबोचडिग घिर जातिर्द्विजन्मनाम् । यत्रैते भुञ्जते पापास्तत्र भञ्जन्ति भाजनम् ||१२|| यः स्वमीयति दातारं दतं तस्मै वरं शुने । जातु दानुमुचितं कृत्नानां द्विजन्मनाम् ॥९३॥ वञ्चानां नृशंसानां श्वापदानां पलादिनाम् । सृष्टिं द्विजानां योऽकार्षीन्निग्राद्यः प्रथमं हि सः ॥ ९४ ॥ इति जल्पन्नल्पक्रुत् पृथ्वीपतिरघातयत् । सपुत्रबन्धुमित्रं तं विप्रं मशकमुष्टिवत् ॥ ९५ ॥ दृशो - रन्धीकृतस्तेन हृदयेऽन्धीकृतः क्रुधा । विप्रान् सोऽघातयत् सर्वान् पुरोधः प्रभृतीनपि ॥ ९६ ॥ सोऽमात्यमादिदेशैवं नेत्रैरेषां द्विजन्मनाम् । विशालं स्थालमापुर्थ्य निधेहि पुरतो मम ॥९७॥ रौद्रमध्यवसायं तं राज्ञो विज्ञाय मन्त्र्यपि । श्लेष्मातकफलैः स्थालं पूरयित्वा पुरो न्यधात् ॥ ९८|| मुमुदे ब्रह्मदत्तोऽपि पाणिना संस्पृशन्मुहुः । विप्राणां लोचनैः स्थालं साधु पूर्णमिति ब्रुवन् ॥ ९९ ॥ स्पर्श स्त्रीरत्नरूपायाः पुष्पवत्यास्तथा न हि
MORE OF CHOIC
द्वितीय
प्रकाशः
॥९७७॥