________________
योगशास्त्रम्
द्वितीय प्रकाश
॥१७६॥
इतपताकाश्चलचञ्चलम् ॥६६॥ बहिरङ्गान् द्विषोऽजैषीर्यथा साधयितुं महीम् । अन्तरङ्गान् जय तथा मोक्षसाधनहेतवे ॥६७॥ गृहाण यतिधर्म तत्पृथक्कृत्य त्यजापरम् । राजहंसो हि गृह्णाति विभज्य क्षीरमम्भसः । ॥६८॥ ब्रह्मदत्तस्ततोऽवादीद् दिष्टया दृष्टोऽसि बान्धव । इयं तवैव राज्यश्री क्ष्व भोगान् यथारुचि ॥६९।। तपसो हि फलं भोगाः सन्ति ते कि तपस्यसि । उपक्रमेत को नाम स्वतः सिद्ध प्रयोजने ॥७०॥ मुनिरूचे ममाप्यासन धनदस्येव सम्पदः । मया तास्तृणवस्यक्ता भवभ्रमणभीरुणा ॥७१॥ सौधर्मान् क्षीणपुण्योऽस्मिन्नागतोऽसि महीतले । इतोऽपि क्षीणपुण्यः सन् राजन्मा गा अधोगतिम् ॥७२।। आर्ये देशे कुले श्रेष्ठे मानुष्यं प्राप्य मोक्षदम् । साधयस्यमुना भोगान् सुधया पादशौचवत् ।।७३।। स्वर्गाच्च्युत्वा क्षीणपुण्यौ भ्रान्तावावां कुयोनिषु । यथा तथा स्मरन् राजन् किं बाल इव मुह्यसि ? ॥७४॥ तेनैवं बोध्यमानोऽपि नाबुद्ध वसुधाधवः। कुतः कृतनिदानानां बोधिबीजसमागमः॥७५॥ तमबोध्यतम बुध्ध्या जगाम मुनिरन्यतः । कालादिष्टाहिना दृष्टे कियत्तिष्ठन्ति मान्त्रिकाः ॥७६।। घातिकर्मक्षयात्प्राप्य केवलज्ञानमुत्तमम् । भवोपग्राहिकर्माणि हत्वा प्राप परं पदम् ॥७७॥ ब्रह्मदत्तोऽपि संसारसुखानुभवलालसः । सप्तातिवाहयामास शतानि शरदा क्रमात् ॥७८॥ कदाचित्पापरिचितो द्विजः कश्चिञ्जगाद तम् । चक्रवर्तिन् स्वयं भुरक्षे यत्तन्मे देहि भोजनम् ॥७९॥ ब्रह्मदत्तोऽप्यवोचत्तं मदनं द्विज दुर्जरम् । चिरेण जीर्यमाणं तु महोन्मादाय जायते ॥८॥ कदर्योऽस्यन्नदानेऽपि धिक्त्वामिति वदन् द्विजः । अभोजि सकुटुम्बोऽपि भूभुजा भोजनं निजम् ।।८१॥ निशायामथ विप्रस्य बीजादिव तदोदनात् । शतशाखः स्मरोन्मादतरुः प्रादुरभूभृशम् ॥८२॥ अज्ञातजननीमामिस्नुपाव्यतिकरं मिथः । पशुवत्सहपुत्रोऽपि
॥१६॥