________________
योगशास्त्रम्
द्वितीय प्रकाशा
॥१७५॥
भिरुपेत्योपेत्य सर्वतः । तस्याभिषेको विदधे भरतस्येव राजभिः ॥४९॥ चतुःषष्टिसहसान्तःपुरखीपरिवारितः । स राज्यसौख्यं बुभुजे प्राक्तपोभूरुहः फलम् ॥५०॥ अन्येधुर्नाटयसंङ्गीते तस्य दास्या समपितः । स्वर्वधूगुम्फित इव विचित्रः पुष्पगेन्दुकः ॥५१॥ ब्रह्मदत्तस्तु तं दृष्ट्वा दृष्टपूर्वो मयेदृशः । कुत्रापीति व्यधादन्तरूहापोई मुहुर्मुहुः ॥ ५२ ॥ प्रापश्चजन्मस्मरणोत्पत्तेस्तत्कालमेव च । सौधर्म दृष्टवानेतदित्यज्ञासीन्महीपतिः ॥ ५३ ॥ स सिक्तश्चन्दनाम्भोभिः स्वस्थीभूयेत्यचिन्तयत् । कथं मेलिष्यति स मे पूर्वजन्मसहोदरः ॥५४॥ तं ज्ञातुकामः श्लोकार्द्धसमस्यामेवमार्पयत् । आस्व दासौ मृगौ हंसौ मातङ्गावमरौ तथा ॥ ५५ ॥ अश्लोकसमस्यां मे य इमां पूरयिष्यति । राज्या? तस्य दास्यामीत्यसावघोषयत्पुरे ॥५६॥ श्लोकार्द्ध तत्तु
सर्वोऽपि कण्ठस्थं निजनामवत् । पठनकार्षीत्पश्चाई न चापूरिष्ट कश्चन ॥५७॥ तदा च पुरिमतालाच्चित्रजीवो | महेभ्यसूः । जातिस्मृतेः प्रवजितो विहरनेकदाऽऽययौ ॥५८॥ तत्र कस्मिंश्चिदुद्याने प्रासुकस्थण्डिलस्थितः । श्लोकार्द्ध तत्त पठतः सोऽश्रीषीदारपट्टिकात् ॥५९॥ एषा नौ षष्ठिका जातिरन्योऽन्याभ्यां वियुक्तयोः । श्लोकापरा
मेवं स सम्पूर्य तमपाठयत् ॥६०॥ श्लोकापरा, तद्राज्ञः पुरस्तादारपट्टिकः । पपाठ कः कविरिति तत्पृष्टस्तं मुनि जगौ ॥६॥ स पारितोषिकं तस्मै वितीयॊत्कण्ठया ययौ । तत्त्रोद्याने मुनि द्रष्टुं धर्मद्रुममिवोद्गतम्॥६२॥वन्दित्वा तं मुनि तत्ा बाष्पपूर्णविलोचनः । निषसादान्तिके राजा सस्नेहः पूर्वजन्मवत् ॥६॥ आशीर्वाद मुनिर्दच्या कृपारसमहोदधिः । अनुग्रहार्थ भूपस्य प्रारेभे धर्मदेशनाम् ॥६४॥ राजन्नसारे संसारे सारमन्यन्न किञ्चन । सारोऽस्ति धर्म एवैकः सरोजमिव कई मे ॥६५॥ शरीरं यौवनं लक्ष्मीः स्वाम्यं मित्त्राणि बन्धवः । सर्वमप्यनिलो
॥१७५॥