________________
योगशास्त्रम्
॥१७४॥
ब्रह्मणः पुत्रभाण्डे यद्दीर्घो दीर्घमचिन्तयत् । आचचारातिपापं तच्छ्वपचोऽपि किमाचरेत् ||३३|| तद्गच्छ शंस दीर्घाय ब्रह्मदत्तोऽभ्युपेत्यसौ । युद्धचस्व यदि वा नश्येत्युक्त्वा दृतं व्यसर्जयत् ||३४|| ततः प्रयाणैरच्छिन्नैः काम्पील्यं ब्रह्मसूर्ययौ । सदीर्घमप्यरात्सीत्तन्नभः सार्कमिवाम्बुदः ||३५|| दीर्घः सर्वाभिसारेण रणसारेण पत्तनात् । १दण्डाक्रान्तो निरसरदविलादिव महोरगः || ३६ || चुलन्यपि तदात्यन्तवेराग्यादाददे व्रतम् । पार्श्वे पूर्णाप्रवर्त्तिन्याः क्रमान्निर्वृतिमाप च ||३७|| पुरोगा दीर्घराजस्य पुरोगैर्ब्रह्मजन्मनः । नदीयादांस्यकूपारयादोभिरिव जघ्निरे ॥ ३८ ॥ दीर्घोऽप्यमर्पादुन्नामिदंष्ट्रिका विकटाननः । वराह इव धावित्वा हन्तुं प्रववृते परान् ॥ ३९ ॥ ब्रह्मदत्तस्य पादातरथिसाद्यादिकं बलम् । पर्यास्यत नदीपूरेणेव दीर्घेण वेगिना ॥ ४० ॥ ब्रह्मदत्तस्ततः starरुणाक्ष युयुधे स्वयम् । गर्जता दीर्घराजेन गर्जन् दन्तीव दन्तिना ॥ ४१ ॥ उभावपि बलिष्ठौ तावस्त्राण्यस्त्रैनिर।सतुः । कल्लोलैरिव कल्लोलान् युगान्तोद्भ्रान्तवारिधी ||४२ ॥ ज्ञात्वाऽथ सेवक इवावसरं प्रसरति । डुढौके ब्रह्मदत्तस्य चक्रं दिक्चक्रजित्वरम् ||४३|| ततो जहार दीर्घस्य तेनाशु ब्रह्मरसून । विमर्दो विद्युतः को ar गोधाधनसाधने ॥ ४४ ॥ जयतादेष चक्रीति भाषिणो मागधा इव । ब्रह्मदत्तोपरि सुराः पुष्पवृष्टिं विनिरे ||४५ || पोरैः पितेव मातेव देवतेव स वीक्षितः । पुरं विवेश काम्पील्यं सुत्रामेवामरावतीम् ॥ ४६ ॥ पूर्वोदृढाः सर्वतोऽपि पत्नीरानाययन्नृपः । कुरुम ( पुष्पव ) त्यभिधानां च स्त्रीरत्नं प्रत्यतिपित् ॥४७॥ विभिन्नस्वामिनोद्भूतसीमनिर्मूलनादसौ । षट्खण्डां साधयित्वोर्वी मेकखण्डां विनिर्ममे ॥ ४८ ॥ संवत्सरैर्द्वादश
(१) युद्धाक्रान्तः पक्षे यष्ठचाक्रान्तः ।
द्वितीय
प्रकाशः
॥१७४॥