________________
द्वितीय प्रकाश
योगशास्त्रम् ॥१७॥
क्रमश्चास्य कस्य चित्रीयते न वा ॥१७॥ कोऽयं कुतो वा छन्नात्मा किं सूर्यों वासवोऽथवा । राज्ञेत्युक्ते रत्नबत्याः पितृव्यस्तमचीकथत् ॥१८॥ ततो विशाम्पतिः कन्याः पुण्यमानी कृतोत्सवः । दक्षः रक्षपाकरायेव ब्रह्मदत्ताय दत्तवान् ॥१९॥ परिणीय स तास्तत्र सुख तिष्ठन्नथाऽन्यदा । जरत्यैत्यैकयेत्यूचे भ्रमयित्वांशुकाञ्चलम् ॥२०॥ इह बैश्रवणोऽस्त्यादयः श्रिया वैश्रवणोऽपरः । तस्य च श्रीमति म सुता श्रीरिख वारिधेः ॥२१॥ मोचिता भवता व्यालादाहोरिन्दुकलेव या । सा त्वामेव पतीयन्ती ततःप्रभृति ताम्यति ॥२२॥ यथा गजात्वया त्राता तथा त्रायस्व तां स्मरात् । गृहाण पाणिं त्वं तस्या यथा हृदयमग्रहीः ॥२३॥ उपयेमे कुमारस्तां विविधोद्वाहमङ्गलैः । सुबुद्धिमन्त्रिणः कन्यां नन्दां वरधनुः पुनः ॥२४॥ पप्रथाते पृथिव्यां तौ तिष्ठन्तौ तत्त्र शक्तितः । साभियोगी प्रतस्थाते ततो वाराणसी प्रति ॥ २५ ॥ श्रुत्वा यान्तं ब्रह्मदत्तं ब्रह्माणमिव गौरवात् । अभ्येत्य संमुखं वाराणसीशः स्वगृहेऽनयत् ॥ २६ ॥ कटकः कटकवर्ती नाम पुत्री निजां ददौ । चतुरङ्गचमं चास्मै मृर्तामिव जयश्रियम् ॥२७॥ कणेरुदत्तश्चम्पेशो धनुमन्त्री तथाऽपरे । भगदत्तादयोऽप्येयुनपाः श्रुत्वा तदागमम् ॥ २८ ॥ कृत्वा वरधनं सेनान्यं सुषे गमिवार्षभिः३ । दीर्घ दीर्घपथे नेतुं प्रतस्थे ब्रह्मनन्दनः ॥ २६ ॥ दीर्घस्य दृतः कटकराजमेत्यैवमूचिवान् । दार्पण सममावाल्यमैत्री त्यक्तुं न युज्यते ॥३०॥ ततः कटक इत्युचे ब्रह्मणा सहिताः पुरा । सोदा इव पश्चाप्यभवाम मुहृदो वयम् ॥३१॥ स्वर्जुषो ब्रह्मणः पुत्रे राज्ये च त्रातुमर्पिते। दीर्पण धिक्कृतं नात्ति शाकिन्यपि समर्पितम् ॥३२॥
(१) चन्द्राय । (२) सोद्यमौ । (३) भरतचक्री ।
१७३
evAAA