________________
CCEO
योगशाखम्
द्वितीय प्रकाशा
॥१७॥
मुञ्जानेषु द्विजन्मसु । विप्रवेषो वरधनुस्तत्रागत्याब्रवीदिति ॥१॥ मम चेद्भोजनं दत्य साक्षाद्वरधनोहि तत् । इति श्रुतिसुधेवास्य श्रुता वाग् ब्रह्ममनुना ॥२॥ स तं दृष्टा परिष्वङ्गादेकीकुर्वनिवात्मना । स्नपयभिव हर्षास्त्रैनिनायान्तर्ग्रहं ततः॥३॥ ऊचे पृष्टः कुमारेण स्ववृत्तं सोऽकथय (कथ) त्तदा । सुप्ते त्वयि निरुद्धोऽहं चौरैः दीर्घभटैर्यथा ॥४॥ वृक्षान्तरस्थितेनैकदस्युनैकेन पत्रिणा । हतोऽहं पतितः पृथव्यां तिरोऽधां च लतान्तरे ॥५।। गतेषु तेषु चौरेषु मध्ये वृक्षं तिरोभवन् । आतिरन्तजेलमिव क्रमेण ग्राममाप्नुवम् ॥६॥ भवत्प्रवृत्ति ग्रामेशाद्विज्ञायाहमिहागमम् । दिष्टयाऽपश्यं भवन्तं च कलापीव पयोमुचम् ॥७॥ अथोचे ब्रह्मदत्तस्तमस्माभिः स्थास्यते ननु । विना पुरुषकारेण क्लीबैरिव कियच्चिरम् ॥८॥ अत्रान्तरे च सम्प्राप्तसाम्राज्यमकरध्वजः । मधुवन्मदको यूनां प्रादुरासीन्मधृत्सवः ॥९॥ तदा च राज्ञो मत्तेभः स्तम्भं भङ्क्त्वाऽपश्रृङ्गलः । निर्ययो त्रासिताशेषमयों मृत्योरिवानुजः ॥१०॥ ततो नितम्बभारार्चा काश्चित् कन्यां स्खलद्गतिम् । करी करेण जग्राहाकृष्ण पुष्करिणीमिव ॥११॥ तस्यां च शरणार्थिन्यां क्रन्दन्त्यां दीनचक्षुपि । जज्ञे हाहारवो विश्वदुःखबीजाक्षरोपमः॥१२॥रे मातङ्गासि मातङ्गः स्त्रियं गृह्णन्न लज्ज से । इत्युक्तः स कुमारेण तां विमुच्य तमभ्यगात्॥१३॥ उत्प्लुत्य दन्तसोपाने पादं विन्यस्य हेलया । आरुरोह कुमारस्तमशिश्रयदथासनम् ॥१४॥ वाक्पादाङ्कुशयोगेन स्वं योगेनेव योगवित् । वशीचकार तं नागं कुमारस्तरसा ततः।।१५।। साधु साध्वित्युच्यमानो जनैर्जय जयेति च । कुमारः करिणं स्तम्भे नीत्वाबध्नादशामिव ॥१६॥ ततो नरेन्द्रस्तत्रागातं च दृष्ट्वा विसिष्मिये । आकृतिवि१ पक्षिविशेषः । २ चण्डालः ।
॥१७॥