________________
योगशास्त्रम् ॥१०१॥
विद्यां साधयितुं ययौ । स्वयं संविद्रते सम्यग् भवन्तस्तु ततः परम् ||८५ || तदा च पुष्पवत्याख्यदावयोर्भ्रात् सङ्क्षयम् । शोकं धर्माक्षरैः शोकापनोद इव चानुदत् ॥ ८६ ॥ अन्यच्च पुष्पवत्यूचेऽभिगम्योऽयमिहगतः । ब्रह्मदत्तोऽस्तु वां भर्ता नान्यथा हि मुनेर्गिरः ||८७|| स्वीकृतं च य (त) दावाभ्यां तया च रभसावशात् । पताकाचालि धवला त्यक्त्वावां त्वं गतस्ततः ॥ ८८ ॥ यदास्मद्भाग्यवैगुण्यान्नागतोऽसि न चेक्षितः । भ्रान्त्वा सर्वत्र निर्विण्णे आवामिह तदागते ॥ ८९ ॥ पुण्यैरसि समायातः पुरा पुष्पवतीगिरा । वृतोऽसि वरयाच तद्गतिरेकस्त्वमावयोः ॥९०॥ गान्धर्मेण विवाहेन स उपायंस्त ते अपि । भोगी हि भाजनं स्त्रीणां सरितामिव सागरः ॥९१॥ रममाणः समं ताभ्यां गङ्गोमाभ्यामिवेश्वरः । तत्रातिवाहयामास तां निशां ब्रह्मनन्दनः ॥९२॥ यावन्मे राज्यलाभः स्यात्पुष्पवत्याः समीपतः । तावद्युवाभ्यां स्थातव्यमित्युक्त्वा व्यसृजच्च ते ॥ ९३॥ तथेत्यादृतवत्यौ ते सलोकस्तच्च मन्दिरम् । गन्धर्वनगरमिव ततः सर्वे तिरोदधे ॥ ९४ ॥ अथाश्रमे रत्नवतीमन्वेष्टुं ब्रह्मसूरगात् । अपश्यंस्तत्र पप्रच्छ नरमेकं शुभाकृतिम् ||१५|| दिव्याम्बरधरा नारी रत्नाभरणभूषिता । कापि दृष्टा महाभाग त्वयातीतदिनेऽथ वा ॥ ९६ ॥ स ऊचे नाथ नाथेति रुदती ह्यो मयेक्षिता । प्रत्यभिज्ञाय नष्त्रीति तत्पितृव्याय चार्पिता ॥९७॥ तद्वरोऽसीति तेनोक्तस्तथेति ब्रह्मसूर्वदन् । निन्ये तेन प्रहृष्टेन तत्पितृव्यनिकेतनम् ||९८|| रत्नवत्या पितृव्योऽपि ब्रह्मदत्तं व्यवाहयत् । ऋद्धया महत्या धनिनां सर्वमीषत्करं यतः ॥९९॥ तया विषयसौख्यानि समं सोऽनुभवन्नथ । मृतकार्यं वरधनोरपरेद्युः प्रचक्रमे ॥४००|| साक्षादिव परेतेषु १ जानन्ति,
द्वितीय
प्रकाशः
॥२७०॥