________________
योग
छास्त्रम्
१७०॥
||१७|| तिष्ठमाने कृतस्नानाशनाय ब्रह्मसूनवे । कथयामासतुस्ते स्वां कथामवितथामिति ॥ ६८ ॥
अस्ति विद्याधरावासः कलधौतशिलामयः । मेदिन्यास्तिलक इव वैताढ्यो नाम पर्वतः ॥ ६९ ॥ अमुष्य दक्षिणश्रेण्यां नगरे शिवमन्दिरे । राजास्ति ज्वलनशिखोऽलकायामिव गुह्यकः ॥७०॥ विद्याधरपतेस्तस्य धुतिद्योतितदिग्मुखा । प्रिया विद्युच्छिखेत्यस्ति विद्युदम्भोमुचो यथा ॥ ७१ ॥ तयोः प्राणप्रिये नाटयोन्मत्ताभितानुजे । नाम्ना खण्डा विशाखा च पुत्र्यावात्रां बभूविव ॥ ७२ ॥ तातः सौधेऽन्यदा सख्याग्निशिखेन सालपन् । गच्छतोऽष्टापदगिरिं गीर्वाणान् खे निरैक्षत ||७३|| ततः स तीर्थयात्रार्थ चलितोऽचालयच्च नौ । सुहृदं चाग्निशिखं तं धर्मेणेष्टं हि योजयेत् ॥७४ || प्राप्ता अष्टापदं तत्रापश्याम मणिनिमिता । प्रतिमास्तीर्थनाथानां मानवर्णसमन्विताः ॥७५॥ स्नानं विलेपनं पूजां विरचय्य यथाविधि । तास्त्रिः प्रदक्षिणीकृत्यावन्दामहि समाहिताः ॥ ७६ ॥ प्रासादान्निःसृतैर्दृष्टौ रक्ताशोकतरोरधः । चारणश्रमणौ मूर्त्तिमन्ताविव तपः शमौ ॥७७॥ तौ प्रणम्योपविश्याग्रे शुशुम श्रद्धया वयम् । अज्ञानतिमिरच्छेद कौमुदीं धर्मदेशनाम् ॥७८॥ पछाग्निशिखः कः स्यात्कन्ययोरनयोः पतिः । तावूचतुर्यो ह्यनयोर्भ्रातरं मारयिष्यति ॥ ७९ ॥ हिमेनेव शशी म्लानो जातस्तात स्तया गिरा । आवामपीत्यवोचाव वाचा वैराग्यगर्भया ॥ ८० ॥ संसारासारतासारा देशनाद्यैव शुश्रुवे । तद्विषाद निषादेन किं तात परिभूयसे ॥८१॥ अलमस्माकमप्येवंविधैविषयजैः सुखैः । प्रवृत्ते वत्प्रभृत्यावां त्रातुं निजसहोदरम् ॥८२॥ भ्राम्यन्नपश्यन्मे भ्राताऽन्यदा पुष्पवतीमसौ । मातुलस्य त्वदीयस्य पुष्पचूलस्य कन्यकाम् ॥८३॥ रूपेणाद्भुतलावण्यपुण्येन हृतमानसः । तां जहार स दुर्बुद्धिर्बुद्धिः कर्मानुसारिणी || ८४॥ सोऽसहिष्णुर्दशं तस्या
द्वितीय प्रकाशर
॥ १७९॥