________________
योगशास्त्रम् ॥१६९॥
FOO
ज्ञायते नैव स तावद्भवतः सखा । तस्य वाचाप्यमाङ्गल्यं नाथ कर्त्तुं न युज्यते ॥ ५२ ॥ त्वत्कार्याय गतः कापि स भविष्यत्यसंशयम् । यान्ति नाथमपृष्ट्वापि नाथकार्याय मन्त्रिणः ॥ ५३ ॥ स तवोपरि भक्त्यैव रक्षितो नूनमेष्यति । स्वामिभक्तिप्रभावो हि भृत्यानां कवचायते || ५४ || स्थाने प्राप्ताः करिष्यामो नरैस्तस्य गवेषणम् । युज्यते नेह तु स्थातुमन्तकोपवने वने ॥ ५५ ॥ तद्वाचा सोऽनुदद्रध्यान् प्रपेदे मगधक्षितेः । सीमग्रामं दविष्ठं हि वाजिनां मरुतां च किम् ॥ ५६ ॥ ग्रामेशेन सदःस्थेन पृष्ट्वा निन्ये स्ववेश्भ सः । अज्ञाता अपि पूज्यन्ते महान्तो मूर्तिदर्शनात् ||५७|| शोकाक्रान्त इवासीति पृष्टो ग्रामाधिपेन सः । इत्यूचे मत्सखा चारैर्युध्यमानो गतः क्वचित् ॥५८॥ तस्य प्रवृत्तिमानेष्ये सीताया इव मारुतिः । इत्युक्त्वा ग्रामणीः सर्वां तां जगाहे महाटवीम् ॥५६॥ अथैत्य ग्रामणीरूचे दृष्टः कोऽपि वने न हि । प्रहारपतितः किन्तु प्राप्त एष शरो मया ॥ ६० ॥ हतो वरधनूनमिति चिन्तयतस्ततः । ब्रह्मसूनोः शोक इव तमोभूरभवनिशा ॥ ६१ ॥ यामे तुरीये यामिन्यास्तत्र चौराः समापतन् । ते तु भग्नाः कुमारेण १मारेणेव प्रवासिनः || ६२|| ततोऽनुयातो ग्रामण्या ययौ राजगृहं क्रमात् । स चामुचद्रत्नवतीं तद्बहिस्तापसाश्रमे ॥ ६३ ॥ विशन् पुरं स ऐक्षिष्ट हर्म्यवातायनस्थिते । साक्षादिव रतिप्रीती कामिन्यौ नवयौवने ॥ ६४ ॥ ताभ्यां सोऽभिदधे प्रेमभाजं त्यक्त्वा जनं ननु । यत्तदा गतवान् युक्तं तत् किं ते प्रत्यभासत ||६५ || व्याजहार कुमारोऽपि प्रेमभाग्र बत को जनः । स कदा च मया त्यक्तः कोऽहं के वा युवामिति ॥ ६६ ॥ प्रसीदागच्छ विश्राम्य नाथेत्यालापनिष्ठयोः । प्राविशद्ब्रह्मदत्तोऽपि मनसीव तयोर्गृहे
(१) कामेन ।
300===TOOR
द्वितीय
प्रकाशः
॥१६९॥