________________
योग
द्वितीय प्रकाशा
शाखम्
लश्रेष्ठिकुक्कुटाजो य एष्यति। श्रीवत्सी ससखा तुल्यरूपो ज्ञेयः स तु त्वया ॥३५।। मदायतनवत्तिन्याः प्रथमस्ते भविष्यति । मेलको ब्रह्मदोन तज्जाने सोऽसि सुन्दर ॥३६।। एहि तन्मां विरहदहनार्ता चिरादिह । विध्यापय पयःपूरेणेव सङ्गेन सम्प्रति ॥३७॥ तथेति प्रतिपद्यास्या अनुरागमिवाल घुम् । सोऽधितष्ठौ रथं तां च गन्तव्य क्वेति पृष्टवान् ॥३८॥ सेत्यूचे मगधपुरे मत्पितृव्यो धनावहः । अस्ति श्रेष्ठयावयोवहीं प्रतिपत्ति स दास्यति ॥३९॥ तदितस्तत्र गन्तव्यमिति रत्नवतीगिरा । ब्रह्मसूमन्त्रिपुत्रेण सूतेनाश्वाननोदयत् ॥४०॥ कौशाम्बीदेश मुल्लङ्घय क्षणेन ब्रह्मनन्दनः। क्रीडास्थानं यमस्येव प्राप भीमां महाटवीम् ॥४१॥ सुकण्टकः कण्टकश्च तत्र चौरचम्पती । ब्रह्मदत्तं रुरुधतुः श्वानाविव महाकिरिम् ॥४२॥ ससैन्यौ युगपत् कालरात्रिपुत्राविवोत्कटौ । शरैर्नभो मण्डपवच्छादयामासतुश्च तौ ॥४३॥ आरधन्वा कुमारोऽपि गर्गश्चौरवरूथिनीम् । निषिषेधेषुभिर्धारासारैर्दवमिवाम्बुदः ॥४४॥ कुमारे वर्षति शरान् ससैन्यौ तौ प्रणेशतुः। हन्त प्रहारिणि हरौ हरिणानां कुतः स्थितिः ॥४५॥ कुमारं मन्त्रिमुरेवमूचे श्रान्तोऽसि सङ्गरात् । मुहत्तै स्वपिहि खामिम्तर्दि हैव रथे स्थितः ॥४६॥ स्यन्दने ब्रह्मदत्तोऽपि रत्नवत्या समन्वितः। सुष्वाप गिरिनितम्बे करिण्येव करी युवा ॥४७॥ विभातायां विभाव- प्राप्यकामथ निम्नगाम् । तस्थुः श्रान्तास्तुरङ्गाश्च कुमारश्च व्यबुध्यत ॥४८॥ विबुद्धस्तु स नापश्यत्स्यन्दने मन्त्रिनन्दनम् । पयसे कि गतः स्यादित्यसकृद् व्याजहार तम् ॥४६॥ सोऽलब्ध प्रतिवाग् दृष्ट्वा रथानं रक्तपकिलम् । विलपन् हा हतोऽस्मीति मूर्छितो न्यपतद्रथे ॥५०॥ उत्थितो लब्धसंज्ञः सन् हाहा वरधनो सखे । कासीति लोकवत् क्रन्दन् रत्नवत्येत्यबोधि सः ॥५१॥ विपनौ
॥१६८॥