________________
योगशास्त्रम् ॥१६७॥
||१७|| तच्चाख्यातुं समारेमे मन्त्रिसूत्रह्मसूनवे । प्रतिलेखं हारबद्धलेखस्येयमयावत ||१८|| श्रीब्रह्मदत्तनामाङ्को लेखोऽयं प्रथयस्व तत् । को ब्रह्मदत्त इति सा मया पृष्ठेदमत्रवीत् ||१९|| अस्ति श्रेष्ठिता रत्नवती नामेड पत्तने । रूपान्तरेण कन्यात्वं प्रपनेव रतिर्भुवि ॥ २० ॥ भ्रातुः सागरदत्तस्य बुद्धिलस्य च तद्दिने । कुक्कुटायोधनेऽपश्यद्दत्तमिम हि सा || २१॥ ततः प्रभृति ताम्यन्ती कामार्त्ता सा न शाम्यति । शरणं ब्रह्मदत्तो मे स एवेत्याह चानिशम् ॥२२॥ स्वयं लिखित्वा चान्येद्युर्लेखं हारेण संयुतम् । अयेतां ब्रह्मदत्तस्येत्युदित्वा सा ममार्पयत् ||२३|| दाहस्ते मया लेखः प्रेषीत्युक्त्वा स्थिता सती । मयापि प्रतिलेखं तेऽययित्वा सा व्यसृज्यत ||२४|| दुर्वारमारसन्तापः कुमारोऽपि ततो दिनात् । मध्याह्नार्ककरोत्तप्तः करीव न सुखं स्थितः ||२५|| कौशाम्बीस्वामिनोऽन्येद्युर्दीर्घेण प्रहिता नराः । नष्टशल्यवदङ्गे तौ तत्रान्वेष्टुं समाययुः ॥२६॥ राजादेशेन कौशाम्ब्यां प्रवृत्तेऽन्वेषणे तयोः । सागरो भूगृहे क्षित्वा तौ जुगोप निधानवत् ||२७|| निशि तौ निर्यियासन्तौ रथमारोप्य सागरः । कियन्तमपि पन्थानं निनाय ववले ततः ॥२८॥ तौ गच्छन्तौ पुरो नारीमुद्याने समपश्यताम् । अत्रपूर्णरथारूढाममरीमिव नन्दने ॥ २९ ॥ लग्ना किमियती वेला युवयोरिति सादरम् । तयोक्तौ तौ बभाषाते कावावां वेत्सि वा कथम् ||३०|| अथाभाषत सा पुर्य्यामस्यां श्रेष्ठी महाधनः धनप्रवर इत्यासीद्धनदस्येव सोदरः ॥ ३१ ॥ श्रेष्ठिश्रेष्ठस्य तस्याहमष्टानां तनुजन्मनाम् । उपरिष्टाद्विवेकश्रीर्धीगुणानामिवाभवम् ||३२|| उद्यौवनास्मिन्नुद्याने यक्षत्तमाराधयं बहु । अत्युमवरप्राप्त्यै स्त्रीणां नाऽन्यो मनोरथः ॥३३॥ तुष्टो भस्यैष मे यक्षवरो वरमिदं ददौ । ब्रह्मदत्तश्चक्रवर्ती तव भर्त्ता भविष्यति ||३४|| सागरबुद्धि
ROCESSORDERS
द्वितीय
प्रकाशः
॥१६७॥