________________
योग
शास्त्रम्
॥१६६॥
पटम् । युष्मत्तुल्यर्द्धिरूपाङ्क दर्शयन्तो वदन्त्यदः || १ || ईदृग्नरौ किमायातावत्रेत्याकर्ण्य गां मया । दृष्टावि युवां यद्वां रुचितं कुरुतं हि तत् ||२|| ततस्तस्मिन् गतेऽरण्यमध्येन कलभाविव । पलायमानौ कौशाम्बीं प्रापतुस्तौ पुरीं क्रमात् ||३|| तत्र सागरदत्तस्य श्रेष्ठिनो बुद्धिलस्य च । उद्यानेऽपश्यतां लक्षपणं तौ कुक्कुटाहवम् ||४|| उत्पत्योत्पत्य नखरैः प्राणाकर्षाङ्कुटैरिव । युयुधाते ताम्रचूडौ चञ्चाचश्चवि चोच्चकैः ॥५॥ तत्र सागरदत्तस्य जात्यं शक्तं च कुक्कुटम् । भद्रेभमिव मिश्रभोऽभाङ्क्षी बुद्धिलकुक्कुटः ||६|| ततो वरधनुः स्माह कथं जात्योऽपि कुक्कुटः । भग्नस्ते सागरानेन पश्याम्येनं यदीच्छसि ||७|| सागराऽनुज्ञया सोऽप्यपश्यत् बुद्धिलकुक्कुटम् तत्पादयोरयः सूचीर्यमदुतीरिवैक्षत ||८|| लक्षयन बुद्धिलोऽप्यस्य लक्षार्द्ध छन्नमिष्टवान् । सोऽप्याख्यत्तं व्यतिकरं कुमारस्य १जनान्तिके ||९|| ब्रह्मदत्तोऽप्ययः सूचीः कृष्ट्वा बुद्धिलकुक्कुटम् । भूयोऽपि सागरश्रेष्ठिकुक्कुटेनाभ्ययोजयत् ||१०|| असूचिकः कुक्कुटेन तेन बुद्धिलकुक्कुटः । क्षणादभव्जि निम्नानां छद्मवाद्यं कुतो जयः ।। ११ । हृष्टः सागरदत्तस्तावारोप्य स्यन्दनं स्वकम् । जयदानैकसुहृदौ निनाय निलये निजे ॥ १२ ॥ स्वधामनीव तद्धाम्न तयोर्निवसतोरथ । किमप्याख्यद्वरधनोरेत्य बुद्धिलकिङ्करः ||१३|| तस्मिन् गते वरधनुः कुमारमिदमभ्यधात् । यद्बुद्धिलेन लक्षार्द्ध दित्सितं मेऽद्य पश्य तत् || १४ || सोऽदर्शयत्ततो हारं निर्मलस्थूलवर्त्तलैः । कुर्वाणं मौक्तिकैः शुक्रमण्डलस्य विडम्बनाम् ||१५|| हारे बद्धं स्वनामाकं ब्रह्मसूर्लेखमै त । आगाच्च वाचिकमिव मूर्त्त वत्साख्यतापसी ||१६|| अक्षतानि तयोर्मूर्ध्नि क्षिप्त्वाशीर्वादपूर्वकम् । नीत्वान्यतो वरधनुं किञ्चिदाख्याय सा ययौ १ रहसि .
द्वितीय प्रकाशः
॥१६६॥