________________
योगशास्त्रम्
॥१६५॥
REET KEE CHEHOOK
1
मांसीवादिदेश च ॥ ८४ ॥ पलायितो धनुर्मन्त्री जनयित्त्री तु सा तव । दीर्घेण नरक इव क्षिप्ता मातङ्गपाटके ॥ ८५ ॥ गण्डोपरिष्टास्पिटकेनेवा वार्त्तया तया । दुःखोपर्युद्भवद्दुःखः काम्पील्यं गतवानहम् ||८६ ॥ छद्मकापालिकीभूय तत्र मातङ्गपाटके । वेश्म वेश्मानुप्रवेशमस्थां शश इवानिशम् ॥८७॥ पृच्छयमानश्च लोकेन त भ्रमणकारणम् । अवोचमिति मातङ्गया विद्यायाः कल्प एष मे ||८८|| तत्रैव भ्राम्यता मैत्री मया विश्वास भाजनम् । अजायतारक्षकस्य मायया कि न साध्यते ॥ ८९ ॥ अन्येद्युस्तन्मुखेनाम्वामवोचं यत्करोत्यसौ त्वत्पुत्रमित्रकौण्डिन्यो महाप्रत्यभिवादनम् ॥९०॥ द्वितीयेऽह्नि स्वयं गत्वा जनन्या बीजपूरकम् । अदां सगुटिकं जग्धेनासंज्ञा तेन साऽभवत् ॥ ९१ ॥ मृतेति तां पुराध्यक्षो गत्वा राज्ञे व्यजिज्ञपत् । राज्ञादिष्टाः स्वपुरुषास्तस्याः संस्कारहेतवे ॥ ९२ ॥ तत्रायाता मयोक्तास्ते संस्कारोऽस्याः क्षणेऽत्र चेत् । महाननर्थो वो राइवेति जग्मुः स्वधाम ते ||९३ || आरक्षं चावदं त्वं चेत् सहायः साधयाम्यहम् । सर्वलक्षण भाजोऽस्था मन्त्रमेकं शवेन तत् ॥ ९४ ॥ आरक्षः प्रतिपेदे तत्तेनैव सहितस्ततः । सायमादाय जननीं श्मशानेऽगां दवीयसि ||१५|| स्थण्डिले मण्डलादीनि मया निर्माय मायया । पूर्देवीनां बलिं दातुमारक्षः प्रेषितस्ततः ॥९६॥ गते तस्मिन्नहं मातुरपरां गुटिकामदाम् । निद्राच्छेद इवोज्जृम्भा सोदस्थाज्जातचेतना || ९७|| स्वं ज्ञापयित्वा रुदतीं निवार्य स्म नयामि ताम् । कच्छग्रामे गृहे तातसुहृदो देवशर्म्मणः ॥ ९९ ॥ इतस्ततो भ्रमन्नेषोऽन्वेषयं स्त्वामिहागमम् । दिष्ट्या दृष्टोऽधुना साक्षात्पुण्यराशिरिवासि मे ॥ ९९ ॥ ततः परं कथं नाथ प्रस्थितोऽसि स्थितोऽसि च । तेनेति पृष्टः स्वं वृत्तं कुमारोऽपि न्यवेदयत् ॥ ३०० || अथ कोऽप्येत्य तावूचे ग्रामे दीर्घभटाः
*
द्वितीय प्रकाशः
॥१६५॥