________________
योगशास्त्रम्
द्वितीय प्रकाशा
Iકા
ध्वगान् ॥६६॥ मनोरथानामगतिः स्वप्नेऽप्यत्यन्तदुर्लभः । आर्यपुत्रागतोऽसि त्वं मद्भाग्योपचयादिह ॥६७॥ स पल्लीपतिरन्येद्यामघातकृते ययौ । कुमारोऽपि समं तेन क्षत्रियाणां क्रमो ह्यसो ॥६८॥ लुण्टयमाने ततो ग्रामे कुमारस्य सरस्तटे । पादाब्जयोर्वरधनुरेत्य हंस इवापतत् ॥६९॥ कुमारकण्ठमालम्ब्य मुक्तकण्ठं रुरोद सः नवीभवन्ति दुःखानि सञ्जाते हीष्टदर्शने ॥७०॥ ततः पीयूषगण्डूषरिवालापैः सुपेशलैः । आश्वास्य पृष्टस्तेनोचे स्ववृत्तमिति मन्त्रिमः ॥७१॥ वटे (टा)ऽधस्त्वां तदा मुक्त्वा गतोऽहं नाथ पाथसे । सुधाकुण्ड मिवापश्यं किञ्चिदग्रे महासरः ॥७२॥ तुभ्यमम्भोजिनीपत्रपुटेनादाय वार्यहम् । यमदतैरिवागच्छन् रूद्धः संवर्मितै टैः ॥७३॥ अरे वरधनो ब्रूहि ब्रह्मदत्तः क्व विद्यते । इति तैः पृच्छयमानः सन्न वेबीत्यहमब्रु(ब्र)वम् ॥७४॥ तस्करैरिव निःशङ्कं ताडयमानोऽथ तैरहम् । इत्यवोचं यथा ब्रह्मदत्तो व्याघ्रग भक्षितः ॥७५।। तं देशं दर्शयेत्युक्तो माययेतस्ततो भ्रमन् । त्वदर्शनपथेऽभ्येत्याकार्ष संज्ञां पलायने ॥७६।। परिवाइदत्तगुटिकां मुखेऽहं क्षिप्तवांस्ततः । तत्प्रभावेन निःसंज्ञो मृत इत्युज्झितोऽस्मि तैः ॥७७॥ चिरं गतेषु तेष्वास्यादाकृष्य गुटिकामहम् । त्वां नष्टार्थमिवान्वेष्टुं भ्रमन् ग्रामं कमप्यगाम् ॥७८॥ तत्रैककोऽपि ददृशे परिव्राजकपुङ्गवः। साक्षादिव तपोराशिनमश्चक्रे मया ततः ॥७९॥ सोऽवदन् मां वरधनो मित्रमस्मि धनोरहम् । वसुभागो महाभागो ब्रह्मदत्तः क्व वर्तते ॥८०॥ आचचक्षे मयाप्यस्य विश्वं विश्वस्य सूनृतम् । स च मे दुष्कथाधमानास्यः पुनरभ्यधात् ॥८१॥ तदा जतुगृहे दग्धे दीर्घः प्रातरुदैवत । करङ्कमेकं निर्दग्धं करवृत्रितयं न हि ॥८२॥ सुरङ्गां तत्र चापश्यत्तदन्तेऽश्वपदानि च । धनोबुद्धया प्रणष्टौ वां ज्ञात्वा तस्मै चुकोप सः ॥८३॥ बध्ध्वा युवां समानेतुं प्रत्याशं साधनानि सः। अस्खलद्गमनान्य
॥१६४॥