________________
योगशास्त्रम्
द्वितीय प्रकाशा
॥१६॥
तोऽमुष्यां सञ्जातं रूपकौशलम् ॥४९॥ सा दास्या सह जल्पन्ती कटाक्षैः कुन्दसोदरैः। कण्ठे मालामिवास्यन्ती | तं पश्यन्त्यन्यतो ययौ ॥५०॥ पश्यन् कुमारस्तामेव प्रस्थितो यावदन्यतः। वस्त्रभूषणताम्बूलभृद्दासी तावदाययौ ॥५१॥ सा वखाद्यर्पयित्वोचे या त्वया ददृशेऽत्र सा। सत्यङ्कारमिव स्वार्थसिद्धेः प्रेषोदिदं त्वयि ॥५२॥ आदिष्टा चास्मि यदमुं मन्दिरे तातमन्त्रिणः । नयातिथ्याय तथ्याय स हि वेत्ति यथोचितम् ॥५३॥ सोऽगात् सह तया वेश्म नागदेवस्य मन्त्रिणः। अमात्योऽप्यभ्युदस्थात्तमाकृष्ट इव तद्गुणः ॥५४॥ श्रीकान्तया राजपुत्र्या वासाय तव वेश्मनि । प्रेषितोऽसौ महाभागः सन्दिश्येति जगाम सा ॥५५॥ उपास्यमानः स्वामीव विविध तेन मन्त्रिणा । क्षणदां क्षपयामास क्षणमेकमिवैष ताम् ॥५६॥ मन्त्री राजकुलेऽनैषीत्कुमारं क्षणदात्यये । अर्घादिनोपतस्थेऽमुं बालार्कमिव भूपतिः॥५७॥ वंशाद्यपृष्टवापि नृपः कुमाराय सुतां ददौ । आकृत्यैव हि तत्सर्व विदन्ति ननु तद्विदः ॥५८॥ उपायंस्त कुमारस्तां हस्तं हस्तेन पीडयन् । अन्योऽन्यं संक्रमयितुमनुरागमिवाभितः॥५९॥ ब्रह्मदत्तोऽन्यदा क्रीडन् रहः पप्रच्छ तामिति । एकस्याज्ञातवंशादेः पित्रा दत्तासि मे कथम् ॥६०॥ श्रीकान्ता कान्तदन्तांशुधौताधरदलाऽब्रवीत् । राजा शबरसेनोऽभूद्वसन्तपुरपत्तने ॥६१॥ तत्स्नु, पिता राज्ये निषण्णः क्रूरगोत्रिभिः । पर्यस्तोऽशिश्रियदिमां पल्लीं सबलवाहनः ॥६२॥ भिल्लानुपनमय्यात्र वार्वग इव वेतसान् । ग्रामघातादिना तातः पुष्णाति स्वं परिग्रहम् ॥६३।। जातास्मि चाहं तनया तातस्यात्यन्तवल्लभा । स्वामिन् सम्पदिवोपायांश्चतुरस्तनयाननु ॥६४॥ स मामुद्यौवनामृचे सर्वे मे द्वेषिणो नृपाः । त्वयेह स्थितया वीक्ष्य वंश्यो यस्ते मतो वरः ॥६५॥ तस्थुषी चक्रवाकीव सरस्तीरे निरन्तरम् । ततः प्रभृति पश्यामि सर्वानेकैकशोऽ
॥१६३॥