________________
योग
द्वितीय प्रकाशा
शास्त्रम्
॥१६॥
॥३३॥ रममाणस्तया साई विचित्रालापपेशलम् । स एकयामामिव तां त्रियामामत्यवाहयत् ॥३४॥ ततः प्रभातसमये ब्रह्मदत्तन शुश्रुवे । आकाशे खेचरस्त्रीणां कुररीणामिव ध्वनिः॥३५॥ अकस्माज्जायते कोऽयं खे शब्दोऽनन्दवृष्टिवत् । तेनेति पृष्टा संभ्रान्ता पुष्पवत्येवमत्रवीत् ॥३६॥ भगिन्यौ त्वद्विषो नाटयोन्मत्तस्ये मे समागते । नाम्रा खण्डा विशाखा च विद्याधरकुमारिके ॥३७॥ तन्निमित्तं विवाहोपस्करपाणी इमे मुधा । अन्यथा चिन्तित कार्य देवं घटयतेऽन्यथा ॥३८॥ अपसर्प क्षणं तावद्यावत्त्वद्गुणकीर्तनः । लभेऽहमनयोर्भावं त्वयि रागविरागयोः ॥३९॥ रागे रक्तां प्रेरयिष्ये पताकां तत्त्वमापतेः । विरागे चालयिष्यामि श्वेतां गच्छेस्तदाऽन्यतः ॥४०॥ ब्रह्मदत्तस्ततोऽवादीन्मा भैषीर्भीरु नन्वहम् । ब्रह्मसूनुः किमेते मे तुष्टे रुष्टे करिष्यतः ॥४१॥ उवाच पुष्पवत्येवं नैताभ्यां वच्मि ते भयम् । एतत्सम्बन्धिनः किन्तु मा विरौत्सुर्नभश्चराः ॥४२॥ तस्याश्चित्तानुवृत्त्या तु तत्रैवास्थात् स एकतः । अथ पुष्पवती श्वेतां पताकां पर्यचीचलन् ।।४३।।ततः कुमारस्तां दृष्ट्वा तत्प्रदेशाच्छनैः शनैः । प्रियानुरोधादगमन हि भीस्तादृशां नृणाम् ॥४४॥ आकाशमिव दुर्गा (ग) हमरण्यमवगाह्य सः । दिनान्तेऽर्क इवाम्भोधि प्रापदेकं महासरः ॥४५॥ ततः प्रविश्य तत्रासौ सुरेभ इव मानसे । स्नात्वा स्वच्छन्दमत्यच्छा: सुधा इव पपावपः ॥४६॥ निःसृत्य ब्रह्मसूभरातीरमुत्तरपश्चिमम् । लतावणदलिस्वानः १सौस्नातिकमिवाभ्यगात् ॥४७॥ तत्र तेन द्रुमलताकुञ्ज पुष्पाणि चिन्वती । वनाधिदेवता साक्षादिव काप्यैक्षि सुन्दरी ॥४८॥ दध्याविति कुमारोऽपि जन्मप्रभृति वेधसः । रूपाण्यभ्यस्य१ सुस्नानपृच्छकमिव.
॥१६२॥