________________
योगशास्त्रम्
द्वितीय प्रकाशा
॥१६१॥
श्वल्गुलीकरणस्थस्य कबन्धं धूमपायिनः॥१७॥ हा विद्यासाधनधनो निधनं प्रापितो मया । कोऽप्येषोऽनपराधो धिग् मामिति स्खं निनिन्द सः ॥१८॥ अग्रतः स ययौ यावत्तावदुद्यानमैक्षत । सुरलोकादवतीर्णमवन्यामिव नन्दनम् - ॥१९॥ स तत्र प्रविशन्नग्रे प्रासादं सप्तभुमिकम् । अदर्शत्सप्तलोकश्रीरहस्यमिव मूछितम् ॥२०॥ आरूढेभ्रलिहे तस्मिनिषण्णां खेचरीमिव । हस्तविन्यस्तवदनां नारीमेकां स ऐक्षत ॥२१॥ उपमृत्य कुमारस्तां पप्रच्छ स्वच्छया गिरा । का त्वमेकाकिनी किंवा किंवा शोकस्य कारणम् ॥२२॥ अथ सा साध्वसाक्रान्ता जगादेति सगद्गदम् । महान् व्यतिकरो मेऽस्ति ब्रुहि कस्त्वं किमागतः॥२३।। ब्रह्मदत्तोऽस्मि पश्चालभूपतेब्रह्मणः सुतः । इति सोऽचीकथद्यावन्मुदा सा तावदुत्थिता ॥२४॥ आनन्दबाष्पसलिलैलॊचनाञ्जलिविच्युतैः । सा कुर्वती पाद्यमिव पपातामुष्य पादयोः ॥२५॥ कुमाराशरणाया मे शरण त्वमुपागतः । मजतो नौरिवाम्मोधी बदन्तीति रुरोद सा ॥२६॥ तेन पृष्टा च साप्यूचे त्वन्मातृभ्रातुरस्म्यहम् । नाम्ना पुष्पवती पुष्पचूलस्यगपतेः सुता॥२७॥ कन्यास्मि भवते दत्ता विवाहदिवसोन्मुखी । हंसीव रन्तुमुद्याने दीपिकापुलिनेऽगमम् ॥२८॥ दुष्टविद्याधरेणाई नाटयोन्मत्ताभिधेन तु । अत्रापहृत्यानीतास्मि रावणेनेव जानकी ॥२९॥ दृष्टिं सोऽसहमानो मे विद्यासाधनहेतवे शूर्पणखास नुरिव प्राविशद्वंशजालिकाम् ॥३०॥ धूमपस्योर्ध्वपादस्य तस्य विद्याद्य सेत्स्यति । शक्तिमान् सिद्धविद्यः स किल मां परिणेष्यति ॥३१॥ ततस्तद्वधवृत्तान्तं कुमारोऽस्यै न्यवेदयत् । हर्षस्योपरि हर्षोऽभूत्प्रियाप्त्या विप्रियच्छिदा ॥३२॥ तयोरथ विवाहोऽभद्दान्धर्वोऽन्योऽन्यरक्तयोः। श्रेष्ठो हि क्षत्रियेष्वेष निर्मन्त्रोऽपि सकामयोः १ वल्गुलः पक्षिविशेषः, तत: चिः
॥१६॥