________________
योग
द्वितीय
शास्त्रम्
प्रकाशः
॥१६॥
नन्दममन्दं विश्ववल्लभः । असौ तत्राश्रमे तस्थौ प्रावृट्कालोऽप्युपस्थितः ॥२०॥ तत्राऽसौ निवसंस्तेन बलेनेव जनार्दनः । शास्त्राणि शस्त्राण्यवाणि सर्वाण्यध्माप्यते स्म च ॥११॥ वर्षात्यये समायाते सारसालापबन्धुरे । बन्धाविव फलाद्यर्थ प्रचेलुस्तापसा वनम् ॥२॥ सादरं कुलपतिना वार्यमाणोऽप्यगाद्वनम् । तैः सह ब्रह्मदत्तोऽपि कलभः कलभैरिव ॥३॥ भ्रमन्नितस्ततोऽपश्यद्विपमूत्रं तत्र दन्तिनः । प्रत्यग्रमिति सोऽमंस्त हस्ती कोऽप्यस्ति दूरतः ॥४॥ तापसैर्वायमाणोऽपि ततः सोऽनुपदं व्रजन् । योजनपञ्चक स्यान्ते नागं नगमिवैक्षत ॥५॥ निःशङ्ख बद्धपर्यङ्कः कुर्वन् गर्जितमूर्जितम् । मल्लो मल्लमिवाहास्त नृहस्ती मत्त हस्तिनम् ॥६॥ क्रुधोधुषितसर्वाङ्गो व्याकुश्चितकरः करी । निष्कम्पकर्णस्ताम्रास्यः कुमारं प्रत्यधावत ॥७॥ इभोऽभ्यर्णेऽभ्यगाद्यावत् कुमारस्तावदन्तरे । उत्तरीय प्रचिक्षेप तं वञ्चयितुमभवत् ॥८॥ अभ्रखण्डमिव. भ्रश्यदन्तरिक्षात्तदंशुकम् । दशनाभ्यां प्रतीयेष क्षणदेषोऽत्यमर्षणः ॥९॥ एवंविधाभिश्चेष्टाभिः कुमारस्तं मतङ्गाजम् । लीलया खेलयामासाहितुण्डिक इवोरगम् ॥१०॥ सखेव ब्रह्मदत्तस्यात्रान्तरे कृतडम्बरः। धाराधरोऽम्बुधाराभिरुपदुद्राव तं गजम् ॥११।। ततो रसित्वा विरसं मृगनाशं ननाश सः। कुमारोऽपि भ्रमन्नद्रिदिग्मूढः प्राप निम्न गाम् ॥१२॥ उत्ततार कुमारस्तां नदी मूर्तामिवापदम् । ददर्श च तटे तस्याः पुराणं पुरमुद्वसम् ॥१३॥ कुमारः प्रविशंस्तस्मिन्नपश्यद्वंशजालिकाम् । तत्रासिवसुनन्दौ चोत्पातकेतुविधू इव ॥१४॥ तौ गृहीत्वा कृपाणेन कुमार शस्त्रकौतुकी । चिच्छेद कदलीच्छेदं तां महावंशजालिकाम् ॥१५॥ वंशजालान्तरे चासौ स्फुरदोष्ठदलं शिरः । ददर्श पतितं पृथ्व्यां स्थलपद्ममिवाग्रतः ॥१६॥ सम्यक् पश्यन्नपश्यच्च ब्रह्मसूस्तत्र कस्यचित् ।
॥१६॥