________________
द्वितीय प्रकाशा
शास्त्रम् ॥१५॥
भोक्ष्यते यस्तवगृहे तस्मै देया स्वकन्यका ॥८॥ जज्ञे च ब्रह्मदत्तस्योद्वाहः सह तया तदा। भोगिनामुपतिष्ठन्ते भोगाः काममचिन्तिताः ॥८४॥ तामुषित्वा निशां बन्धुमतीमाश्वस्य चान्यतः । ययौ कुमार एकत्रावस्थानं सद्विषां कुतः॥८५॥ प्रातमं प्रापतुस्तौ तत्र चाशृणुतामिदम् । पन्थानोऽधिब्रह्मदत्तं सर्वे दीर्पण रोधिताः॥८६॥ प्रस्थितावुत्पथेनाथ पेततुस्तौ महाटवीम् । निरुद्धां श्वापदैर्दीर्घपुरुषैरिव दारुणैः ।।८७॥ ततः कुमारं तृषितं मुक्त्वा वटतरोरधः । वारिणेऽगाद्वरधनुर्मनस्तुल्येन रंहसा ॥८८॥ ततो वरधनुः सोऽयामुपलक्ष्य न्यरुध्यत । रुषितैर्दीघपुरुषः पोत्रिपोत इव श्वभिः ॥८९॥ गृह्यतां गृह्यतामेष बध्यतां बध्यतामिति । भीषणं भाषमाणैस्तैर्जगृहे ववधे च सः ॥९०॥ संज्ञामधिब्रह्मदत्तं पलायस्वेति सोऽकृत । पलायिष्ट कुमारोऽपि समये खलु पौरुषम् ॥११॥ ततस्तस्या महाटव्या महाटव्यन्तरं जवात् । ब्रह्मसूराश्रमीवागादाश्रमादाश्रमान्तरम् ॥९२।। स तु तत्र कृताहारो विरसैररसैः फलैः । तृतीये दिवसेऽपश्यदेकं तापसमग्रतः ॥९॥ कुत्राश्रमो वो भगवनिति पृष्टस्तपस्विना । स स्वाश्रमपदं निन्ये तापसा बतिथिप्रियाः ॥९४॥ सोऽथापश्यत्कुलपति बवन्दे पितृवन् मुदा । प्रमाणमन्तःकरणमविज्ञातेऽपि वस्तुनि ॥९५॥ ऊचे कुलपतिर्वत्स तवातिमधुराकृतेः । को हेतुरत्रागमने मरौ सुरतरोरिव ॥१६॥ ततो महात्मनस्तस्य विश्वस्तो ब्रह्मसूनिजम् । वृत्तान्तमाख्यत्प्रायेण गोप्यं न खलु तादृशम् (शः) ॥९७॥ हृष्टस्ततः कुलपतिाहरद्द्दाक्षरम् । द्विधास्थित इवात्मैको भ्राताई त्वत्पितुर्लघुः ॥९॥ ततो निजगृहं प्राप्तस्तिष्ठ वत्स यथासुखम् । अस्मत्तपोभिर्वर्द्धस्व सहैवास्मन्मनोरथैः ॥९९॥ कुर्वन् जनगा१ किरिबालः
॥१५९॥