________________
द्वितीय
योगशास्त्रम्
प्रकाशः
॥१५८॥
द्वारं तद्वार प्रविशाधुना ॥६५।। आतोद्यपुटवत्सोऽथ पाणिनाऽऽस्फोटय भूपुटम् । सुरङ्गया समित्रोऽगाद्रत्नरन्ध्रेण सूत्रवत् ॥६६।। सुरङ्गान्ते धनुधृतौ तुरङ्गावध्यरोहताम् । राजमन्त्रिकुमारौ तौ रेवन्तश्रीविडम्बकौ ॥६७॥ पश्चाशद्योजनीं क्रोशमिव पश्चमधारया । अश्वौ जग्मतुरुच्छ्वासौ ततः पञ्चत्वमापतुः ॥६८॥ ततस्तौ पादचारेण प्राणत्राणपरायणौ । जग्मतुर्निकषा ग्राम कृच्छ्रात्क्रोष्टकनामकम् ।।६९॥ प्रोवाच ब्रह्मदत्तोऽथ सखे वरधनोऽधुना। स्पर्द्धमाने इवान्योऽन्य बाधेते क्षुत्तषा च माम् ॥७०॥ क्षणमत्र प्रतिक्षस्वेत्युक्त्वा तं मन्त्रिनन्दनः। ग्रामादाकारयामास नापितं वपनेच्छयो ॥७१॥ मन्त्रिपुत्रस्य मन्त्रेण तत्रैव ब्रह्मनन्दनः। वपनं कारयामास चुलामात्रमधारयत् ॥७२॥ तथा कषायवस्त्राणि पवित्राणि स धारयन् । सन्ध्याभ्रच्छन्नबालांशुमालिलीलामधारयत् ॥७३॥ कण्ठे वरधनुन्यस्तं ब्रह्मसूत्रमधत्त च । ब्रह्मपुत्रो ब्रह्मपुत्रसादृश्यमुदुवाह च ॥७४॥ मन्त्रिसूर्ब्रह्मदत्तस्य वक्षः श्रीवत्सलाग्छितम् । पट्टेन पिदधे प्रावृट् पयोदेनेव भास्करम् ॥७५॥ एवं वेषपरावर्त ब्रह्मसः सूत्रधारवत् । पारिपार्श्विकवन्मन्त्रिपुत्रोऽपि विदधे तथा ॥७६।। ततः प्रविष्टौ ग्रामे तो पार्वणाविन्दुभास्करौ । केनापि द्विजवर्येण भोजनाय निमन्त्रितौ ॥७७।। सोऽथ तौ भोजयामास भक्त्या राजानुरूपया । प्रायस्तेजोऽनुमानेन जायन्ते प्रतिपत्तयः ॥७८॥ कुमारस्याक्षतान्मूर्ध्नि क्षिपन्ती विप्रगेहिनी । श्वेतवस्त्रयुगं कन्यां चोपनिन्येऽप्सर:समाम् ॥७९॥ ऊचे ततो वरधनुर्बटोरस्याकलापटोः । कण्ठे बध्नासि किमिमां मूढे शण्डस्य गामिव ॥८०॥ ततो द्विजवरेणोचे ममेयं गुणवन्धुरा । कन्या बन्धुमती नास्या विनामुमपरो वरः ।।८१॥ पट्खण्डपृथिवीपाता पतिरस्या भविष्यति । इत्याख्यायि निमित्त निश्चित चायमेव सः ॥८२॥ तैरेवाख्यायि मे पट्टच्छन्नश्रीवत्सलाञ्छनः ।
॥१५८॥