________________
योग
शास्त्रम् ॥१५७॥
||४७|| मायाकृतावहित्थोऽथ दीर्घः सचिवमूचिवान् । राज्येन त्वां विना नः किं यामिन्येव विना विधुम् ॥४८॥ धर्म सत्रादिनाऽत्रैव कुरु मा गास्त्वमन्यतः । राज्यं भवादृशैर्भाति सदवृक्षैरिव काननम् ॥ ४९ ॥ ततो भागीरथीतीरे सद्बुद्धिर्विदधे धनुः । धर्मस्येव महाच्छत्रं पवित्रं सत्रमण्डपम् ॥ ५० ॥ सत्रं च पान्थसार्थानामन्नपानादिना ततः । प्रवाहमिव गाङ्गं सोऽनवच्छिन्नमवाहयत् ॥ ५१ ॥ दानमानोपकारात्तैः स प्रत्ययितपूरुषैः । चक्रे सुरङ्गां द्विक्रोशां ततो जतुगृहावधि ॥५२॥ इतः प्रच्छन्नलेखेन सौहार्दद्रुमवारिणा । इमं व्यतिकरं पुष्पचूलमज्ञापयद्धनुः ॥५३॥ ज्ञात्वा तत्पुष्पचूलोऽपि सुधीः स्वदुहितुः पदे । प्रेषयामास दासेरीं हंसीस्थाने बकीमिव ॥५४॥ पित्तले च स्वर्णमिति पौष्पचूलीति सा जनैः । लक्षिता भूषणमणिद्योतिताशाविशत्पुरीम् ॥५५॥ मूर्च्छद्गीतिध्वनितूर्यपूर्यमाणे नभस्तले । मुदा तां चुलनी ब्रह्मनुना पर्यणाययत् ||५६ || चुलन्यप्यखिलं लोकं विसृज्य रजनीमुखे । कुमारं सस्तुषं प्रेपीज्जातुषे वासवेश्मनि ॥५७॥ सवधूकः कुमारोऽपि विसृष्टान्यपरिच्छदः। तत्रागाद्वरधनुना छाययेव स्वया सह ॥ ५८ ॥ वार्त्ताभिर्मन्त्रिपुत्रेण ब्रह्मदत्तस्य जायतः । निशार्द्धं व्यतिचक्राम कुतो निद्रा महात्मनाम् ||५९ || चुलन्यादिष्टपुरुषैः फूत्कर्त्तु नमिताननैः । ज्वलेति प्रेरित इव वासगृहेऽज्वलच्छिखी ॥६०॥ धूमस्तोमस्ततो विष्वक् पूरयामास रोदसीम् । चुलनीदीर्घदुष्कृत्यदुष्कीतिंप्रसरोपमः ॥ ६१ ॥ सप्तजिह्वोऽप्यभूत्कोटिजिहो ज्वालाकदम्बकैः । तत्सर्वे कवलीकर्तुं बुभुक्षित इवानलः ||६२|| किमेतधिति संपृष्टो ब्रह्मदत्तेन मन्त्रिसूः । संक्षेपादाचचक्षेऽदचलनी दुष्ट चेष्टितम् || ६३ || आक्रष्टुं त्वामितः स्थानाद्रूपं करिकरादिव । अस्ति तातेन दत्तेह सुरङ्गा सत्रगामिनी || ६४ || अत्र पाणिप्रहारेण प्रकाशीकृत्य तत्क्षणात् । योगीव विवर
FOR MORE
द्वितीय
प्रकाशः
॥१५७॥