________________
योगशास्त्रम् ॥१५६॥
यावत्क
मृगद्विषम् । साक्षेपं तद्वदेवोचे कुमारो मारसूचकम् ॥ ३१ ॥ इति श्रुत्वाऽवदद्दीर्घः साकूतं बालभाषितम् । ततश्चुलन्युवाचेति यद्यस्त्येवं ततोऽपि किम् ||३२|| इंस्याऽन्येद्युर्बकं बध्ध्वाभ्यवत्त ब्रह्मसूरिति । अनया रमते ह्येष सहे कस्यापि दशम् ||३३|| दीर्घोऽवादीदिदं देवि स्वपुत्रस्य शिशोः श्रृणु । अन्तरुद्भिभरोषाग्निधूमोद्वारोपमा गिरः || ३४ || वर्द्धमानः कुमारोऽयं तदवश्यं भविष्यति । आवयोरतिविघ्नाय करेण्वोवि केसरी ||३५|| न वचहरः कुमारो हन्त जायते । तावद्विषद्रुम इव बालोऽप्युन्मूल्यतामसौ ||३६|| चुलन्यूचे कथं राज्यधरः पुत्रो विहन्यते । तिरश्च्योऽपि हि रक्षन्ति पुत्रान् प्राणानिवात्मनः ||३७|| दीर्घोऽब्रवीत्पुत्रमूर्त्या तव कालोऽयमागतः मा मुहस्त्वं मयि सति सुतास्तव न दुर्लभाः ||३८|| विमुच्यापत्यवात्सल्यं शाकिनीव चुलन्यथ । रतस्नेहपरवशा प्रतिशुश्राव तत्तथा ॥ ३९ ॥ सामन्त्रयद्विनाश्योऽयं रक्ष्या च वचनीयता । यद्वदाम्रवणं सेक्यं कार्य च पितृतर्पणम् ॥४०॥ क उपायोऽथवास्त्येष विवाह्यो ब्रह्मसूरसौ । वासागारमिषात्तस्य कार्य जतुगृहं ततः ॥४१॥ गूढप्रवेशनिःसारे तत्रोद्वाहादनन्तरम् । सुषुसे सस्नुषेऽप्यस्मिन् ज्वाल्यो निशि हुताशनः ॥४२॥ उभाभ्यां मन्त्रयित्वैवं पुष्पचूलस्य कन्यका । वृता वैवाहिकी सर्वसामग्री चोपचक्रमे ||४३|| तयोश्च क्रूरमाकूतं विज्ञाय सचिवो धनुः । इति विज्ञपयामास दीर्घराजं कृताञ्जलिः ||४४ || कलाविभीतिकुशलः सूनुर्वरधनुर्मम । १वहंलिहयुवेवास्तु त्वदाज्ञारथधूर्वहः || ४५ || २जरद्गव इवाहं तु यातायातेषु निःसहः । गत्वा कचिदनुष्ठानं करोमि त्वदनुज्ञया ॥ ४६ ॥ कमप्यनर्थ कुर्वीत मायाव्येष गतोऽन्यतः । आशङ्कतेति तं दीर्घौ धीमद्भ्यः को न शङ्कते (१) वृषभयुवा. (२) वृद्धवृषभः ।
द्वितीय प्रकाशः
॥१५६॥