________________
योगशास्त्रम् ॥१५५॥
प्राहरिक इव वर्षे वर्षेऽस्तु रक्षक ः ||१३|| दीर्घखातं सुहृद्राज्यं तैः संयुज्य न्ययुज्यत । ततः स्थानाद्यथास्थानमथ जग्मुनयोऽपि ते ||१४|| अदीर्घबुद्धिदीर्घोऽपि ब्रह्मणो राज्यसम्पदम् । उक्षेवारक्षकं क्षेत्रं स्वच्छन्दं बुभुजे ततः ||१५|| निरङ्कुशतया कोशं चिरगूढं स मूढधीः । सर्वमन्वेषयामास परममेव दुर्जनः ||१६|| स प्राक् परिचयादन्तरन्तः पुरमनर्गलः । सञ्चचाराधिपत्यं हि प्रायोऽन्धंकरणं नृणाम् ||१७|| एकान्ते चुलनीदेव्या सोऽतिमात्रममन्त्रयत् । वचोभिर्नर्म्मनिपुणैर्बुदन् स्मरशरैरिव ॥ १८ ॥ आचारं ब्रह्मसुकृतं लोकं चावगणय्य सः । संप्रसक्तश्चुलन्याभृद्दुर्वाराणीन्द्रियाणि हि ||१९|| ब्रह्मराजे पतिप्रेम मित्रस्नेहं च तावुभौ । जहतुश्चलनीदीर्घावहो सर्वङ्कषः स्मरः ||२०|| सुखं विलसतोरेवं यथाकामीनयोस्तयोः । बहवो व्यतियान्ति स्म मुहूर्त्तमिव वासराः ॥ २१ ॥ ब्रह्मराजस्य हृदयं द्वैतीयीकमिव स्थितम् । मन्त्रयज्ञासीद्धनुरिदं स्पष्टं दुश्चेष्टितं तयोः ॥ २२ ॥ सचिवोऽचि तयच्चेदं चुलनी स्त्रीस्वभावतः | अकार्यमाचरत्वेषा सत्यो हि विरलाः स्त्रियः ||२३|| सकोशान्तःपुरं राज्यं न्यासे विश्वासतोऽर्पितम् । यद्विद्रवति दीर्घस्तदकार्यं नास्य किश्चन ||२४|| तदसावाचरेत्किश्चित्कुमारस्यापि विप्रियम् । पोषकस्यापि नात्मीयो मार्जार इव दुर्जनः ||२५|| विमृश्येति वरधनुसंज्ञं स्वसुतमादिशत् । तचत् ज्ञापयितुं नित्यं ब्रह्मदत्तं च सेवितुम् ||२६|| विज्ञप्ते मन्त्रिपुत्रण वृत्तान्ते ब्रह्मनन्दनः । शनैः प्राकाशयत्कोपं नवोद्भिश्न इव द्विपः॥२७॥ ब्रह्मदत्तोऽसहिष्णुस्तन्मातृदुश्चरितं ततः । मध्ये शुद्धान्तमगमद्गृहीत्वा काककोकिले ॥ २८ ॥ वर्णसङ्करतो वध्यावेतावन्यमपीदृशम् । निश्चितं निग्रहीष्यामि तत्रेत्युच्चैरुवाच सः ॥ २९ ॥ काकोऽहं त्वं पिकी त्यावां निजिघृक्षत्यसाविति । दीर्घेणोक्तेऽवदद्देवी मा भैषीर्वालभाषितात् ॥ ३० ॥ एकदा भद्रवशया सह नीत्वा
द्वितीय
प्रकाशः
॥१५५॥।