________________
योगशास्त्रम्
द्वितीय प्रकाशा
॥१५॥
सद्योऽभूच्छलान्वेषी हि मन्मथः ॥९५॥ अथ सान्तःपुरे राज्ञि तावनुज्ञाप्य जग्मुषि । रागाभिभूतः सम्भूतो निदानमिति निर्ममे ॥९६॥ दुष्करस्य मदीयस्य यद्यस्ति तपसः फलम् । तत्स्त्रीरत्नपतिरहं भूयासं भाविजन्मनि ॥९७॥ चित्रोऽप्यूचे काङ्सीदं मोक्षदात्तपसः फलम् । मौलियोग्येन रत्नेन पादपीठं करोषि किम् ॥६॥ मोहात्कृतं तनिदानमिदानीमपि मुच्यताम् । मिथ्यादुष्कृतमस्यास्तु मुह्यन्ति न भवादृशाः ॥९९॥ एवं निवार्यमाणोऽपि सम्भूतश्चित्रसाधुना । निदानं नामुचदहो विषयेच्छा बलीयसी ॥ १० ॥ नियूंढानशनौ तौ तु प्राप्तायुःकर्मसंक्षयौ । सौधर्म समजायेतां विमाने सुन्दरे मुरौ ॥१॥ च्युत्वा जीवोऽथ चित्रस्य प्रथमस्वर्गलोकतः। पुरे पुरिमतालाख्ये महेभ्यतनयोऽभवत् ॥२॥ च्युत्वा सम्भूतजीवोऽपि काम्पिल्ये ब्रह्मभूपतेः। भार्यायानुलनीदेव्याः कुक्षौ समवतीणवान् ॥३॥ चतुर्दशमहास्वमसूचितागामिवैभवः । अथ जज्ञे सुतस्तस्याः प्राच्या इव दिवाकरः ॥४॥ ब्रह्ममग्न इवानन्दाद् ब्रह्मभूपतिरस्य च । ब्रह्माण्ड विश्रुतां ब्रह्मदत्त इत्यभिधां व्यधात् ॥ ५॥ वकृधे स जगन्नेत्रकुमुदानां मुदं दिशन् । पुष्यन् कलाकलापेन कलानिधिरिवामलः ॥६॥ वक्त्राणि ब्रह्मण इव चत्वारि ब्रह्मणोऽभवन् । प्रियमित्राणि तत्रैकः कटकः काशिभूपतिः ।।७।। कणेरुदत्तसंज्ञोऽन्यो हस्तिनापुरनायकः । दीर्घश्च कोशलाधीशश्चम्पेशः पुष्पचूलकः॥८॥ ते स्नेहाद्वर्षमेकैकमेकैकस्य पुरं युताः। पञ्चाप्यधिवसन्ति स्म स्वर्द्वमा इव नन्दनम् ॥९॥ ब्रह्मणो नगरेऽन्येधुस्ते यथायोगमाययुः। तत्र च क्रीडतां तेषां ययौ कालः कियानपि॥१०॥ ब्रह्मदत्तस्य पूर्णेषु वर्षेषु द्वादशेष्वथ । परलोकगति भेजे ब्रह्मराजः शिरोरुजा ॥११॥ कृत्वौर्ध्वदेहिकं ब्रह्मभूपतेः कटकादयः । उपाया इच मृर्तास्ते चत्वारोऽमन्त्रयन्निति ॥१२॥ ब्रह्मदत्तः शिशुर्यावदेकेकस्तावदत्र नः । तस्य
| ॥१५॥