________________
योगशास्त्रम् ॥१५३॥
द्वितीय प्रकाशा
७७॥ चित्रोऽप्यत्रान्तरे ज्ञात्वा सम्भूतमुनिमभ्यगात् । सान्त्वयितुं भद्रमिव द्विपं मधुरभाषितैः ॥७८॥ तस्य कोपं उपाशाम्यच्चित्रवाक्यैः श्रुतानुगैः । पयोवाहपयःपूरैगिंरेखि दवानलः ॥७९॥ महाकोपतमोमुक्तः शशाङ्क इव पार्वणः । क्षणादासादयामास प्रसादं स महामुनिः॥८॥ वन्दित्वा क्षमयित्वा च लोकस्तस्मान्यवर्तत ॥ सम्भूतश्चित्रमुनिना तदुधानमनीयत ॥८१॥ पश्चात्तापं चक्रतुस्तौ पर्यटद्भिगृहे गृहे । आहारमात्रककृते प्राप्यते व्यसनं महत् ॥८२॥ शरीरं गत्वरमिदं ह्याहारेणापि पोषितम् । किमनेन शरीरेण किं वाहारेण योगिनाम्।।८३॥ चेतसीति विनिश्चित्य कृतसंलेखनौ पुरा । उभौ चतुर्विधाहारप्रत्याख्यानं प्रचक्रतुः ॥८४॥ कः पराभूतवान्साधु वसुधाम्पाति मय्यपि । इति जिज्ञासतो राज्ञो मन्त्री व्यज्ञपि केनचित् ॥८५।। अाभार्चति यः सोऽपि पापः किमुत हन्ति यः । इत्यानाययदुर्वोशो दस्युवत्संयमय्य तम् ॥८६॥ अन्योऽपि साधुविध्वंसं मा विधादिति शुद्धधीः। तं बद्धं पुरमध्येन सोऽनैषीत्साधुसन्निधौ ॥८७॥ नमन्नृपशिरोरत्नभाभिरम्भोमयीमिव । कुर्वन्नुर्वी स उर्वीशपुङ्गवस्ताववन्दत ॥८८॥ सव्यपाणिगृहीतास्यवस्विकापिहितानानौ । उदक्षिणकरौ तौ तमाशशंसतराशिषा ॥८९॥ यो वोऽपराधवान् सोऽस्तु स्वकर्मफलभाजनम् । राज्ञा सनत्कुमारणेत्यदर्शि नमुचिस्तयोः ॥९॥ अमोचि नमुचिः प्राप्तः पञ्चत्वोचितभूमिकाम् । सनत्कुमारतस्ताभ्यामुरगो गरुडादिव ॥९१॥ निर्वास्य कर्मचण्डालश्चण्डाल इव पत्तनात् । वध्योऽप्यमोच्यसौ राज्ञा मान्यं हि गुरुशासनम् ॥९२॥ सपत्नीभिश्चतु:पष्टिसहखैः परिवारिता । वन्दितुं तौ सुनन्दागात् वीरत्नमथ चक्रिणः ॥९॥ सा सम्भूतमुनेः पादपद्मयोललितालका । पपातास्येन कुर्वाणा भुवमिन्दुमतीमिव ॥९॥ तस्याश्चालकसंस्पर्श सम्भूतमुनिरन्वभूत् । रोमाश्चितश्च
॥१५३॥