________________
योग
शास्त्रम्
॥१५२॥
भृतिभिस्तौ तपोभिः सुदुस्तयैः । क्रशयामासतुर्देहं प्राक्तनैः कर्मभिः सह ॥ ६०॥ ततो विहरमाणौ तौ ग्रामाद्ग्रामं पुरात्पुरम् । कदाचित्प्रतिपेदाते नगरं हस्तिनापुरम् || ६१|| तौ तत्र रुचिरोद्याने चेरतुर्दुश्वरं तपः । सम्भोगभूमयोऽपि स्युस्तपसे शान्तचेतसाम् ||६२|| सम्भूतमुनिरन्येद्युर्मासक्षपणपारणे । पुरे प्रविष्टो भिक्षार्थ यतिधर्मोऽङ्गवानिव ||६३॥ गेाद्वेहं परिभ्राम्यनीर्यासमितिपूर्वकम् । स राजमार्गापतितो दृष्टो नमुचिमन्त्रिणा || ६४ || मातङ्गदारकः सोऽयं मदवृत्तं ख्यापयिष्यति । मन्त्रीति चिन्तयामास पापा: सर्वत्र शङ्किताः ॥६५॥ यावन्मन्मर्म कस्यापि प्रकाशयति न ह्यसौ । तावन्निर्वासयाम्येनमिति पत्नीन्न्ययुक्त सः || ६६ ॥ स ताडयितुमारेभे तेन पूर्वोपकाय्यपि क्षीरपानमिवाहीनामुपकारोऽसतां यतः ||६७॥ लकुटैः कुटयमानोऽसौ सस्यबीजमिवोत्कटैः स्थानात्ततोऽपचक्राम त्वरितं त्वरितं मुनिः ||६८|| अमुच्यमानः कुट्टाकैर्भिर्यन्नपि मुनिस्तदा । शान्तोऽप्यकुप्यदापोऽपि तप्यन्ते वह्नितापतः ||६९ || निर्जगाम मुखात्तस्य बाप्पो नीलः समन्ततः । अकालोपस्थिताम्भोदविभ्रमं विभ्रदम्बरे ॥७० || तेजोलेश्योल्ललासाथ ज्वालापटलमालिनी । तडिन्मण्डलसङ्कीर्णामिव धामभितन्बती ॥ ७१ ॥ अतिविष्णुकुमारं सं तेजोलेश्याधरं ततः । प्रसादयितुमाजग्मुः पौराः सभयकौतुका ॥७२ || राजा सनत्कुमारोऽपि ज्ञात्वा तत्त्र समाययौ । उत्तिष्ठति यतो वह्निस्तद्धि विध्यापयेत्सुधीः ||७३|| नत्वोचे तं नृपः कि वो युज्यते भगवन्निदम् । चन्द्रारमाशुततोऽपि नाचिमुञ्चति जातुचित् ॥७४॥ एभिरत्यपरार्द्ध यत्कोषोऽयं भवतामतः । क्षीराब्धेर्मध्यमानस्य कालकूटमभून्न किम् ||७५ || न स्यात्स्याच्चेचिरं न स्याच्चिरं चेत्तत्फलेऽन्यथा । खलस्नेह इव क्रोधः सतां तद्ब्रूमहेऽत्र किम् ॥ ७६ ॥ तथापि नाथ नाथामि कोपं मुञ्चतरोचितम् । भवादृशाः समदृशो ह्यपकार्य्युपकारिषु
द्वितीय प्रकाशः
॥१५२॥